________________
वज्रेणापिधृतेन नर्तनविधि निर्वाणदातुः पुरो, रुपैः पञ्चभिरेवमुत्सुकमनाः प्राचीनबर्हिळधात् ।।७।। सामानिकाङ्गरक्षरेवं, परिवारितः सुराधीशः, विभ्रत् त्रिभुवननाथ, प्राप सुराद्रि सुरगणाम्यम् IIII तत्रेन्द्रास्त्रिदशाप्सर:परिवृता विश्वेशितुः संमुखं, मंक्ष्वागत्य नमस्कृति व्यधुरलं स्वालंकृतिभ्राजिताः। आनन्दान्ननृतुस्तथा सुरगिरिसुट्यद्भिरामास्वरैः, शृङ्गैः काञ्चनदानकर्मनिरतो भाति स्म भक्त्या यथा ।।९।। अतिपांडुकंबलाया महाशिलायाः शशांकधवलायाः । पृष्ठे मणिरचितं पीठमधुर्देवगणवृषभाः ।।१०।। तत्राधायोत्सङ्गे ईशानसुरेश्वरो जिनाधीशम् । पद्मासनोपविष्टो, निविडां भक्तिं दधौ मनसि ।।११।। इन्द्रादिष्टास्तत आमियोगिकाः, कलशगणमथानिन्युः । वेदरसखवसुसंख्यं मणिरजतसुवर्णमुद्रचितम् ।।१२।।
कुंभाश्च ते योजनमात्रवक्त्रा आयाम औनत्यमथेषु चैवम् ।
दशाष्टबार्हत्करयोजनानि द्वित्येकधातुप्रतिषंगगर्भाः ।।१३।। नीरैः सर्वसरित्तडागजलधि-प्रख्यान्यनीराशया-नीतैः सुन्दरगन्धगर्मिततरैः स्वच्छरलं शीतलैः । भृत्यैर्देवपतेर्मणिमयमहा-पीठस्थिताः पूरिताः, कुंभास्ते कुसुमस्रजां समुदयः कंठेषु संभाविताः ।।१४।।
पूर्वमच्युतपतिर्जिनेशितुः स्नात्रकर्म विधिवद् व्यधान्महत् ।
तैर्महाकलशवारिभिर्घनैः प्रोल्लसन्मलयगन्धवारिभिः ।।१५।। चतुर्वृषभशृङ्गोत्थ-धाराष्टकमुदंचयन् । सौधर्माधिपतिः स्नात्रं विश्वभरिपूरयत् ।।१६।।
शेषं क्रमेण तदनन्तरमिन्द्रवृन्दं, कल्पासुरक्षवननाथमुखं व्यधत्त । स्नात्रं जिनस्य कलशैः कलितप्रमोदं, प्रावारवेषविनिवारितसर्वपापम् ।।१७।।