________________
८६
पंयामृतना शो बने नमो अरिहंताणं, नमोऽर्हत्सिद्धाचार्योपाध्यायसर्वसाधुभ्यः । पूर्व जन्मनि विश्वभर्तुरधिकं सम्यक्त्वभक्तिस्पृशः, सूतेः कर्म समीरवारिदमुखं काष्ठाकुमार्यो व्यधुः। तत्कालं तविषेश्वरस्य निविडं सिंहासने प्रोन्नतं, वातोद्धृतसमुद्धरध्वजपटप्रख्यां स्थितिं व्यानशे ।।१।। क्षोभात्तत्र सुरेश्वरः प्रसृमर-क्रोधक्रमाक्रान्तधीः कृत्वालक्तक-सिक्त-कूर्मसदृशं चक्षुःसहस्रं दधौ । वज्रं च स्मरणागतं करगतं कुर्वन् प्रयुक्तावधि, ज्ञानात्तीर्थकरस्य जन्म भुवने भद्रंकरं ज्ञातवान् ।।२।।
नम नम इति शब्दं ख्यापयंस्तीर्थनाथं, स झटिति नमति स्म प्रौढसम्यक्त्वभक्तिः ।
तदनु दिवि विमाने सा सुघोषाख्यघंटा, सुररिपुमदमोघा घातिशब्दं चकार ।।३।। द्वात्रिंशल्लक्षविमान, मंडले तत्समा महाघंटाः । ननदुः सुदुःप्रधर्षा हर्षोत्कर्ष वितन्वन्त्यः ।।४।।
तस्मानिश्चित्य विश्वाधिपतिजनुरथो निर्जरेन्द्र स्वकल्पान्, कल्पेन्द्रान् व्यन्तरेन्द्रानपि भवनपतींस्तारकेन्द्रान् समस्तान् ।
आह्वायाह्वाय तेषां स्वमुखभवगिराख्याय सर्व स्वरुपं, श्रीमत्कास्विराद्रेः शिरसि परिकरालंकृतान् प्राहिणोच्च ।।५।।
ततः स्वयं शक्रसुराधिनाथः, प्रविश्य तीर्थदूरजन्मगेहम् ।
परिच्छदैः सार्द्धमथो जिनाम्बा, प्रस्वापयामास वरिष्ठविद्यः ।।६।। कृत्वा पञ्चवपूंषि विष्टपपतिः संधारणं हस्तयो-श्छत्रस्योद्वहनं च चामरयुग-प्रोद्भासनाचालनम् ।