________________
श्रीमत्परमकल्याण-सिद्धिदः श्रेयसेऽ स्तु वः । पार्श्वनाथः जिनः श्रीमान्, भगवान् परमः शिवः ।।१७।। धरणेन्द्र-फणच्छत्राऽलंकृतो वः श्रियं प्रभुः । दद्यात्पद्मावतीदेव्या, समधिष्ठित-शासनः ॥१८॥ ध्यायेत्कमलमध्यस्थं श्रीपार्श्व जगदीश्वरम् । ॐ ह्री (श्री) अर्ह समायुक्तं, केवलज्ञानभास्करम्।।१९।। पद्मावत्याऽन्वितं वामे धरणेन्द्रेण दक्षिणे । परितोऽष्टदलस्थेन, मन्त्रराजेन संयुतम् ॥२०।। अष्टपत्रस्थितैः पंच, नमस्कारैस्तथा त्रिभिः । ज्ञानावध्यै र्वेष्टितं नाथं, धर्मार्थकाममोक्षदम् ।।२१।। सत्षोडशदलारूढ, - विद्यादेवीभिरन्वितम् । चतुर्विंशतिपत्रस्थं, जिनमातृसमावृतम् ||२२।। मायावेष्टयत्रयाग्रस्थं, क्रौंकारसहितं प्रभुम | नवग्रहावृतं देवं, दिकपालै दशभिर्वतम्
वृतम् ||२३|| चतुष्कोणेषु मन्त्राद्यै-, श्चतुर्बीजान्वितै र्जिनैः । चतुरष्ट-दशद्वीति-द्विधांकसंज्ञकैयुक्तम् ॥२४।। दिक्षु क्षिकारयुक्तेन, विदिक्षु लांकितेन च । चतुरस्त्रेण वज्रांकं, क्षितितत्त्वे प्रतिष्ठितम् ॥२५।। श्रीपार्श्वनाथमित्येवं, य समाराधयेज्जिनम् । तं सर्वपापनिर्मुक्तं भजते श्रीः शुभप्रदा ॥२६ ।। जिनेशः पूजितो भक्त्या, संस्तुतः प्रणतोऽथवा। ध्यातस्त्वं यैः क्षणं वाऽपि, सिद्धिस्तेषां महोदया।।२७।। श्रीपार्श्वमंत्रराजान्ते, चिन्तामणिगुणास्पदम् । शान्तिपुष्टिकरं नित्यं, क्षुद्रोपद्रवनाशनम् ||२८|| ऋद्धि-सिद्धि-महाबुद्धि-धृति-श्री-कान्ति-कीर्तिदम् । मृत्युंजयं शिवात्मानं, जपन्नानन्दितो जनः ।।२९।। सर्वकल्याणपूर्णः स्याद्, जरामृत्युविवर्जितः । अणिमादि-महासिद्धिं, लक्षजापेन चाप्नुयात् ||३०|| प्राणायाम-मनोमन्त्र-योगादमृतमात्मनि। त्वामात्मानं शिवं ध्यात्वा, स्वामिन् ! सिद्धयन्ति जन्तवः।।३१।। हर्षदः कामदश्चेति, रिपुघ्नः सर्वसौख्यदः । पातु वः परमानन्द-लक्षणः संस्मृतो जिनः ||३२।। तत्त्वरुपमिदं स्तोत्रं सर्वमंगल-सिद्धिदम् । त्रिसन्ध्यं यः पठेन्नित्यं, निश्चे प्राप्नोति स श्रियम् ||३३।।