________________
શ્રી પાર્શ્વનાથ - મંત્રાધિરાજ સ્તોત્ર श्रीपार्श्व: पातु वो नित्यं, जिनः परमशंकर | नाथः परमशक्तिश्च, शरण्यः सर्वकामदः ।।१।। सर्वविघ्नहरः स्वामी, सर्वसिद्धिप्रदायकः । सर्वसत्त्वहितो योगी, श्रीकरः परमार्थदः ||२|| देवदेवः स्वयंसिद्धश्चिदानंदमयः शिवः परमात्मा परब्रह्म, परमः परमेश्वर
||३|| जगन्नाथः सुरज्येष्ठो, भूतेशः पुरूषोत्तमः । सुरेन्द्रो नित्यधर्मश्च, श्रीनिवासः सुधार्णवः ||४|| सर्वज्ञ सर्वदेवेशः सर्वगः सर्वतोमुखः । सर्वात्मा सर्वदर्शी च, सर्वव्यापी जगद्गुरुः ||५|| तत्त्वमूर्तिः परादित्यः परब्रह्म प्रकाशकः । परमेन्दुः परप्राणः परमामृतसिद्धिदः
।।६।। अजः सनातनः शम्भु-रीश्वरश्च सदाशिवः । विश्वेश्वरः प्रमोदात्मा, क्षेत्राधीशः शुभप्रदः ।।७।। साकारश्च निराकारः सकलो निष्कलोऽव्ययः । निर्ममो निर्विकारश्च, निर्विकल्पो निरामयः अमरश्चारूजोऽनन्त, एकोऽनेकः शिवात्मकः । अलक्ष्यश्चाऽप्रमेयश्च, ध्यानलक्ष्यो निरंजन ।।९।। ॐ काराकृतिरव्यक्तो, व्यक्तरूपस्त्रयीमयः । ब्रह्मद्वय प्रकाशात्मा निर्भयः परमाक्षरः ।।१०।। दिव्यतेजोमयः शान्तः, परामृतमयोऽच्युतः । आद्योऽनाद्यः परेशानः परमेष्ठी परः पुमान् ।।११।। शद्धस्फटिकसंकाशः स्वयंभः परमाच्यतः । व्योमाकारस्वरूपश्च, लोकालोकावभासकः ||१२|| ज्ञानात्मा परमानन्दः प्राणारूढो मनः स्थितिः । मनः साध्यो मनोध्येयो, मनोदृश्यः परापरः ।।१३।। सर्वतीर्थमयो नित्यः, सर्वदेवमयः प्रभुः । भगवान् सर्वतत्त्वेशः शिवश्री-सौरव्यदायकः ।।१४।। ईति श्री पार्श्वनाथस्य, सर्वज्ञस्य जगदगुरोः । दिव्यमष्टोत्तरं नाम, शत-मत्र प्रकीर्तितम् ।।१५।। पवित्रं परमं ध्येयं, परमानन्द-दायकम् । भुक्ति-मुक्तिप्रदं नित्यं, पठतां मङ्गलप्रदम् ।।१६।।