________________
आगम
(०५)
प्रत
सूत्रांक
[४३७
४६८]
गाथा
दीप
अनुक्रम
[५२९
•५६२]
श्रीभग० लघुवृतौ
ScacciCKDO
“भगवती" - अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग - २
शतक [१२], वर्ग [-] अंतर् शतक [-] उद्देशक [१-१०], मूलं [ ४३७-४६८] + गाथा
एवोपनीयते, न व्यभिचारो, यथेह दर्शने, यत्र तु विपर्ययोऽस्ति तत्र व्यभिचारो नियमथ, यथा ज्ञाने, आत्मा ज्ञानरूपोऽज्ञानरूपश्वेति व्यभिचारः, ज्ञानं स्वात्मैवेति नियमः ॥ आत्माधिकाराद्रत्नप्रभादिभावेन आत्मत्वादि चिन्तयन्नाह - 'आया भंते' चि (सू. ४६८) अतति - गच्छति तांस्तान् पर्यायानित्यात्मा, ततश्वात्मा - सद्रूपा रत्नप्रभापृथ्वी 'अन्न'त्ति अनात्मा, असद्रूपेत्यर्थः, 'सिया आया सिय नो आय'त्ति स्यात्सती स्यादसती 'सिय अवत्तव्य'त्ति आत्मत्वेनानात्मत्वेन च व्यपदेष्टुमशक्यं वस्त्विति भावः, | कथमवक्तव्यमित्याह-आत्मेति नोआत्मेति च वक्तुमशक्यमित्यर्थः, 'अप्पणो आइडे' ति आत्मनः-स्वस्य रत्नप्रभाया एव वर्णादिपर्यायैरादिष्टे आदेशे सति तैर्व्यपदिष्टा सतीत्यर्थः, आत्मा, स्यात् खपर्यायापेक्षया सतीत्यर्थः, 'परस्स आइट्ठे नोआय'ति परस्य - शर्करादिपृथ्व्याख्यस्य पर्यायैरादिष्टे आदेशे सति तैर्व्यपदिष्टा सतीत्यर्थः, नोआत्मा - अनात्मा स्यात्, पररूपापेक्षया असतीत्यर्थः, 'तदुभयस्स आइडे'ति तयोः खपरयोरुभयं तदुभयं तस्य पर्यायैरादिष्टे - आदेशे सति, तदुभयपर्यायैर्व्यपदिष्टेत्यर्थः, अवक्तव्यं - अवाच्यं वस्तु स्यात्, तथाहि न हासौ आत्मेति वक्तुं शक्या, परपर्यायापेक्षया अनात्मत्वात् तस्याः, नाप्यनात्मेति वक्तुं शक्या, स्वपर्यायापेक्षया तस्या आत्मत्वादिति, अवक्तव्यत्वं च आत्मानात्मशब्दापेक्षयैव, न तु सर्वथा, अवक्तव्यशब्देनैव तस्या उच्यमानत्वात्, अनभिलाप्यभावानामपि भावपदार्थवस्तुप्रभृतिशब्दैरन भिलाप्यशब्देनाभिलाप्यत्वादिति, एवं परमाणुसूत्रमपि । द्विप्रदेशिकसूत्रे पद् भङ्गाः, तत्राद्यास्त्रयः सम्पूर्ण स्कन्धापेक्षाः प्रागुक्ता एव तदन्ये तु त्रयो देशापेक्षाः, तत्र गोयमेत्यत आरभ्य व्याख्यायते -'अप्पणो' त्ति तस्य पर्यायैः 'आदिट्ठे'ति आदेशे सति, आदिष्ट इत्यर्थः, द्विप्रदेशिकस्कन्धः, आत्मा स्यात् १ एवं परस्य पर्यायैरादिष्टेऽनात्मा २ तदुभयस्य द्विप्रदेशिकस्कन्धः तदन्यस्कन्धलक्षणस्य पर्यायैरादिष्टोऽसाववक्तव्यं वस्तु स्यात्, कथं ?,
मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०५], अंगसूत्र- [ ०५ ] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः
~88~
१२ श० १० उद्दे.
॥१९१॥