________________
आगम
(०५)
प्रत सूत्रांक
[४०८
४३६]
गाथा
दीप
अनुक्रम
[४९४
५२८]
श्रीभग०
लघुवृत्तौ
“भगवती”- अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग - २
शतक [११], वर्ग [-], अंतर्र-शतक [-] उद्देशक [१-१२], मूलं [ ४०८-४३६ ] + गाथा
'अट्ठ करोडियाधारीओ' त्ति स्थगिकाधारिणीः, 'उम्मदियाओ ति इहामहिंकानामुन्मर्दिकानां चाल्पबहुमर्द्दनकृतो विशेषः, | 'पसाधियाओ'त्ति मण्डनकारिणी 'वण्णगपेसण' त्ति चन्दनहरितालादिपेषणकारिकाः, 'चुण्णगपेसण'त्ति ताम्बूलचूर्णगन्धद्रव्यचूर्णादिकारिणी 'दवकारीओ'ति हास्यकारिकाः 'उवत्थाणियाओ'ति या आस्थानगतानां पार्श्वे वर्त्तन्ते, 'नाडइज्जाओ'त्ति नाट्यकारिकाः 'कुटुंबिणीओ'त्ति पदातिरूपाः 'महाणसिणीओ'ति रसवतीकारिकाः, शेषपदानि रूढिगम्यानि, 'विमलस्स'त्ति (सू० ४३०) अस्यामवसर्पिण्यां त्रयोदशजिनस्य 'पपोत्तर' प्रपौत्रकः - प्रशिष्यः, 'जहा केसित्ति, कला इत्यनेन च सूचितं 'कलाकुसलसब्बकालसुहोइयाउ ति 'सिवभहस्स'त्ति एकादशशतनत्र मोदेशाभिहित शिवराजर्षिपुत्रस्य 'जहा अंमडो'त्ति यथोपपातिके अम्मडोऽधीतस्तथाऽयमपि वाच्यः, 'वंभलोए'त्ति इह चतुर्दशपूर्वधरस्य जघन्यतोऽपि लान्तके उपपात इष्यते 'जावंति लंतगाओ चोदसपुब्बी जहष्ण उववाओ' त्ति इति वचनाद्, एतस्य तु चतुर्द्दशपूर्वधरस्यापि यद् ब्राह्मलोक उपपात उक्तस्तत्केनापि मनाग्विस्मरणादिना प्रकारेण चतुर्द्दशपूर्वाणामपरिपूर्णत्वादिति संभावयंति। 'इदाणिवि करेसि चि (सू.४३१) | हे सुदर्शन ! त्वं इदानीमपि करोषि 'सण्णी पुत्र्वजाईसरणे'ति संज्ञिरूपा या पूर्वजातिस्तस्याः सरणं यत्तत्तथा, 'अहिसमेइति अधिगच्छति, 'दुगुणाणियसद्धासंवेग 'त्ति द्विगुणौ पूर्वकालापेक्षया आनीतौ श्रद्धासंवेगौ यस्य स तथा तत्र श्रद्धा तच्च श्रद्धा संवेगो यस्य स तथा तं, सदनुष्ठान चिकीर्षा वा संवेगो भवभयं मोक्षाभिलाषो वा, 'उस भदत्तस्स' त्ति नवमशतत्रयस्त्रिंशत्तमोदेशकाभिहितस्येति । एकादशशते एकादशः ||
'एगओ 'त्ति (सू. ४३२) एकत्र 'समुवागयाणं' समुपागतानां 'सहियाणं' ति मिलितानां 'समुविद्वाणं' ति आसनग्रहणेन
मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०५], अंगसूत्र [०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः
~61~
११ श० ११ उद्दे.