SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [१८], वर्ग, अंतर्-शतक , उद्देशक [१-१०], मूलं [६१७-६४८] + गाथा (०५) M प्रत १८२० सूत्रांक लघुवृत्ती [६१७६४८] गाथा * मस्ति तथापि तत्फलसद्भावात् तदस्तीत्यवगन्तव्यं, तेषु तपस्संयमादिषु 'जयण'ति प्रवृत्तिः 'इंदियजवणिजंति इन्द्रिययाप नीय-वश्यत्वं 'नोइंदिय'ति नोइन्द्रिययापनीयं इत्यत्र नोशब्दस्य मिश्रवचनत्वात् इन्द्रियसहचरिताः कषायाः 'सरिसवति । प्राकृतत्वात् सदृशययसः, अन्यत्र सर्षपाः, 'दब्बमास'त्ति द्रव्यमाषाः 'कालमास'त्ति कालरूपा मासाः 'कुलत्थ'त्ति कुलस्था:कुलीनाः, अन्यत्र धान्यविशेषाः अथवा कुलाङ्गना वा, 'कुलकण्णय'त्ति कुलकन्यकाः कुलमातृका: 'कुलवहुय'त्ति कुलवधूका | H इति त्रिविधाः । 'एगे भवन्ति (स् . ६१८) एको भवान् इत्येकत्वस्वीकारे भगवताऽऽत्मनः कृते श्रोत्रादिविज्ञानानामवयवानां | चात्मनोऽनेकतोपलब्धित एकत्वं दूषयिष्यामि, 'दुवे'त्ति द्वौ भवानिति द्विचाङ्गीकारे अहमेकत्वविशिष्टार्थस्य द्विवविरोधेन द्वित्वं | दूयिष्यामि, 'अक्खएपनि इत्यादिपदत्रयेण नित्यात्मपक्षः पर्यनुयुक्तः, 'अणेगभूयत्ति अनेके भूता-अतीता भावाः, सत्ताः परिणामा वा भव्याश्च भाविनो यस्य स तथा, अनेन अतीतभविष्यत्सत्ताप्रश्नेन अनित्यपक्षः पर्यनुयुक्तः, एकतरपरिग्रहे तस्यैव दूष| णायेति, ततो भगवता स्याद्वादमतेन तस्योत्तरमदायि-'एगेऽवि अहं' जीवद्रव्येण, नतु प्रदेशार्थतया, नाणदसणट्ठयाए दुईत्तिम न चैकस्य स्वभावभेदो न दृश्यते, यथैको देवदत्तादिः पुत्रत्वपितृत्वादिभावाननेकान् लभते तथा ज्ञानदर्शनार्थतयाऽहं द्विरूपः,। अक्षय्यहं सर्वथा प्रदेशानां क्षयाभावात् , एवमव्ययोऽप्यहं ज्ञानादीनामव्ययत्वात् , अवस्थितोऽप्यहं असङ्ख्येयप्रदेशतो, नित्यो-| ऽप्यहं 'उवओगट्ठयाए'त्ति विविधानुपयोगानाश्रित्य अनेकभूतभावभविकोऽप्यह, अतीतानागतकालयोरनेकविषयबोधानामात्मनः कथश्चिदमिन्नानां भूतत्वाद् भावित्वाचानित्यपक्षोऽपि न दोपाय, 'जहा रायप्पसेणइजे'त्ति यथा राजप्रश्नीये 'चित्तो'त्ति अनेन यत्सूचितं तस्यार्थलेश एवं, यथा राजेश्वरादयस्त्यक्त्वा हिरण्यादि साधुत्वं प्रतिपद्यन्ते न तथा शक्नोम्यहं प्रवजितुं इतीच्छाम्यहं | AHARASTROLORIDDHAROHAADINHADAHATMADE दीप अनुक्रम [७२१७५७] ॥२४३ मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०५], अंगसूत्र-[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति: ~192
SR No.006212
Book TitleAagam 05 Bhagavati Daanshekhariyaa Vrutti Ang Sutra 5 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages305
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size87 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy