________________
आगम
(०५)
प्रत
सूत्रांक [५६२
५९०]
गाथा
दीप अनुक्रम [६६०
६९२]
श्रीभग लघुवृत्ती
JCHOCODILICICCCCCDC)
“भगवती" - अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग - २
शतक [१६], वर्ग [-] अंतर् शतक [-] उद्देशक [१-१४], मूलं [ ५६२ - ५९०] + गाथा
देशविषये 'अहवा एगिंदियदेसा अणिदियस्स य देसे' इत्येवंरूपः प्रथमभङ्गो दशमशते आग्नेयीप्रकरणे उक्तोऽपीह न वाच्यो, यतः केवलिसमुद्घाते कपाटाद्यवस्थायां लोकस्य प्राक् चरमान्ते प्रदेश वृद्धिहानिकृतलोकसद्भावेनानिन्द्रियस्य बहूनां देशानां सम्भवो न त्वेकस्येति, तथा आनेय्यां दशविधेष्वरूपिद्रव्येषु धर्माधर्माकाशास्तिकायद्रव्याणां तस्यामभावात् सप्तविधा अरूपिण उक्ताः, लोकस्य पूर्वचरमान्ते तु अद्वासमयस्याप्यभावात् षड्विधास्ते वाच्याः, तत्राद्धासमयाभावः, तस्य समयक्षेत्र एवं सद्भावाद्, अत आह-'जे अरूबी अजीवा ते छब्बिहा, अद्धासमओ नत्थि'त्ति, 'उवरिल्ले चरिमंते 'ति अनेन सिद्धोपलक्षित उपरितन चरमान्तो विवक्षितः, तत्रैवेन्द्रियदेशा अनिन्द्रियदेशाश्च सन्तीति कृत्वाऽऽह – 'जे जीवे' त्यादि, इहायमेको द्विकयोगः, त्रिकयोगेषु द्वौ २ कार्यों, तेषु हि मध्यमभङ्गः, स चायम्- 'अहवा एगिंदियदेसा अणिदियदेसा य वेदियस्स य देसा नत्थि' एवंरूपो नास्ति, तत्र द्वीन्द्रियस्योपरितनचरमान्ते मारणान्तिकसमुद्घातेन गतस्यापि देश एव तत्र सम्भवति, न पुनः प्रदेशवृद्धिहानिकृतलोकवशादनेकप्रतरात्मकप्राक्चरमान्तवदेशा, उपरितनचरमान्तस्यैकप्रतररूपतया लोकदन्तकाभावेन देशानेकत्वा हेतुत्वादिति, अत आह'एवं मज्झिल्लविरहिओ' ति त्रिकभङ्गक इति प्रक्रमः उपरितनचरमान्तापेक्षया । अथ जीवप्रदेश प्ररूपणायां एवं 'आइलविर - हिओ'ति यदुक्तं तस्यायमर्थः इह प्रागुक्ते भङ्गत्रये प्रदेशापेक्षया 'अहवा एगिंदियष्पदेसा य अणिदियष्पदेसाय वेदियस्स यप्पएसे' इत्ययं प्रथमभङ्गको न वाच्यः, द्वीन्द्रियस्य च प्रदेश इत्यस्यासम्भवात् तदसम्भवश्च लोकव्यापकावस्थाऽनिन्द्रियवर्जजीवानां यत्रैकः प्रदेशस्तत्रासङ्ख्यातानामेव तेषां भावात्, 'अजीवा जहा दसमसए तमाए ति तमाख्यां दिशमाश्रित्य सूत्रमधीतं, तथेहोपरितनचरमान्तमाश्रित्य वाच्यं तचेदम्- 'जे अजीवा ते दुबिहा पं० तं०- रुवि० अरुविअजीवा य, जे रूविअजीवा ते
मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०५], अंगसूत्र [०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः
165
१६ श० ८ उद्देशः