________________
आगम
(०५)
प्रत
सूत्रांक
[ ५३९
५६१]
गाथा
दीप
अनुक्रम
[६३९
६५९ ]
श्रीभग
लघुवृत्तौ
“भगवती" - अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग - २
शतक [१५], वर्ग [-], अंतर् शतक [-] उद्देशक [-] मूलं [ ५३९-५६१ ] + गाथा
विराधितश्रामण्यत्वात्, अन्यथाऽनगाराणां वैमानिकेष्वेवोत्पत्तिः स्यात् यच्च 'दाहिणिल्लेसु' ति इह यदुच्यते तत्तस्य क्रूरकर्मत्वेन दक्षिणक्षेत्रेष्वेवोत्पाद इतिकृत्वा, अविराधितचारित्र इत्यर्थः, आह च "आराहणा य एत्थं चरणपडिवत्तिसमयओ पमिह । आमरणंतमजस्सं संजमपरिपालणं विहिण ॥१॥"ति, एवमिह यद्यपि विराधनायुक्ताचारित्रभवा अग्निकुमारवर्जभवनपतिज्योतिष्कत्वहेतुभवसहिता दश अविराधनाभवास्तु यथोक्तसौधर्मादिदेव लोकसर्वार्थसिद्धयुत्पत्तिहेतवः सप्त अष्टमत्र सिद्धिगमनभव हत्येमवष्टादश चारित्रभवा उक्ताः श्रूयते चाष्टौ भवांश्चारित्रं स्यात्, तथापि न विरोधः, अविरोधनाभवानामेव ग्रहणात् अन्ये त्वाहु:-'अट्ठ भवा उ चरिते' इत्यत्र सूत्रे आदानभवानां वृत्तिकृता व्याख्यातत्वात् चारित्रप्रतिपत्तिविशेषिता एव भवा ग्राह्याः, अविराधनाविशेषणं न कार्य, अन्यथा यद्भगवद्वीरेण हालिकाय यत्प्रव्रज्याबीजमिति दापिता तन्निरर्थकं स्यात्, सम्यक्त्वमात्रेणैव बीजमांत्रस्य सिद्धत्वात् यत्तु चारित्रदानं तस्य तदष्टमचारित्रे सिद्धिरेतस्य स्यादिति विकल्पादुपपन्नं स्यादिति यच्च दशसु विराधनाभवेषु तस्य चारित्रं प्रोक्तं तद् द्रव्यतोऽपि स्यादिति न दोषः अन्ये त्वाहुः - नहि वृत्तिकारवचोमात्रावष्टम्भादेवाधिकृत सूत्रमन्यथा व्याख्येयं स्यात्, आवश्यकचूर्णिकारेणाप्याराधनापक्षस्य समर्थितत्वादिति, 'एवं जहा उबवाइए' इत्यादि भावितमेव अम्मडपरि| व्राजकदृष्टान्त इति ॥ पञ्चदशशतं भगवतीलघुवृत्तितः सम्पूर्णम् ॥
इति श्रीदानशेखरसूरि समुद्धृतायां भगवतीलघुवृत्तौ पंचदशं शतकं
9 9 9
मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०५], अंगसूत्र-[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः
... अत्र शतक १५ समाप्तं.
~154~
१५ शु०
॥२२४॥