SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [१३], वर्ग , अंतर्-शतक H], उद्देशक [१-१०], मूलं [४६९-४९८] + गाथा (०५) प्रत 4.du सूत्रांक लघुवृत्ती [४६९४९८] श्रीभग अथ द्रव्यतस्तामाह-'नथि एगेणवित्ति सकलस्य धर्मास्तिकायद्रव्यस्य प्रश्नितत्वात् तद्व्यतिरिक्तख धर्मास्तिकायप्रदेशस्यामा वादुक्तं-'नास्ति' न विद्यतेऽयं पक्षः, यदुत एकेनापि धर्मास्तिकायप्रदेशेनासौ धर्मास्तिकायः स्पृष्ट इति, तथा धर्मास्तिकायोऽधर्मा। स्तिकायप्रदेशैरसख्येयैः स्पृष्टः, धर्मास्तिकायप्रदेशानन्तरस्पर्शन एवं व्यवस्थितत्वात् अधर्मास्तिकायसम्बन्धिनामसङ्ख्यातानामपि । प्रदेशानामिति, आकाशास्तिकायप्रदेशैरसङ्ख्यैरपि, असङ्ख्येयप्रदेशस्वरूपलोकाकाशप्रमाणत्वाद्धर्मास्तिकायस्य,जीवपुद्गलप्रदेशैस्तु धर्मास्तिकायो नान्ते स्पृष्टः, तद्व्याप्या धर्मास्तिकायस्यावस्थितत्वात् , तेषां चानन्तत्वाद् , अद्धासमयैः पुनरसौ स्पृष्टश्चास्पृष्टश्च, IEL तत्र यः स्पृष्टः सोऽनन्तैरिति ६ । एवमधर्मास्तिकायस्य ६ सूत्राणि वाच्यानि, केवलं यत्र धर्मास्तिकायप्रदेशादिस्तत्प्रदेशैरेव चिन्त्यते ।। तत्स्वस्थानमितरच परस्थानं, तत्र स्वस्थाने 'नथि एगेणवि पुढे'ति निर्वचनं वाच्यं, परस्थाने च धर्मास्तिकायादित्रयसूत्रेषु ३ अस-1 ख्येयैः स्पृष्ट इति वाच्यं, असङ्ख्यातप्रदेशत्वाद्धर्माधर्मास्तिकाययोः, तत्संस्पृष्टाकाशस्य च, जीवादित्रयसूत्रेषु चानन्तैः प्रदेशः स्पृष्ट इति वाच्यं, अनन्तप्रदेशत्वात्तेषामिति, 'एवं एएणं गमेणं'ति, इहाकाशसूत्रेऽयं विशेषो द्रष्टव्यः-आकाशास्तिकायो धर्मास्तिकायादिनदेशैः स्पृष्टश्चास्पृष्टश्च, तत्र यः स्पृष्टः सोऽसङ्ख्येयधर्माधर्मास्तिकाययोः प्रदेशैः जीवास्तिकायादीनां त्वनंतैरिति, 'जाव अद्धासमओ'ति अद्धासमयसूत्रं यावत् सूत्राणि वाच्यानि इत्यर्थः, 'जाव केवइएहिंति इत्यादौ यावत्करणादद्धासमयसूत्रे आद्य पद| पञ्चकं सूचितं, षष्ठं तु लिखितमेवास्ति, तत्र तु 'नत्थि एक्केणवित्ति निरुपचरितस्याद्धासमयस्यैव भावात् , अतीतानागतसमययोश्चम विनष्टानुत्पन्नत्वेनासचात् न समयान्तरेण स्पृष्टताऽस्तीति । अथावगाहद्वारम्-तत्र 'जत्थ णं'ति (सू. ४८२) यत्र प्रदेशे |एको धर्मास्तिकायस्य प्रदेशोऽवगाढस्तत्रान्यस्तत्प्रदेशो नास्तीतिकृत्वाऽऽह-'नस्थि एक्कोऽविति, धर्मास्तिकायप्रदेशस्थानेऽधर्मा गाथा BETADISADIHIDNIHIDEEO HD HIDEEOHACHICEERING दीप अनुक्रम [५६३५९३] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ~105
SR No.006212
Book TitleAagam 05 Bhagavati Daanshekhariyaa Vrutti Ang Sutra 5 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages305
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size87 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy