________________
आगम
(०५)
प्रत
सूत्रांक [ ३४४
३५१]
गाथा:
दीप अनुक्रम
[ ४२२
४२९]
श्रीभगः लघुवृत्तौ
“भगवती”- अंगसूत्र-५ (मूलं+वृत्तिः) भाग-१
शतक [८], वर्ग [-] अंतर् शतक [-] उद्देशक [९], मूलं [ ३४४-३५१] + गाथा: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [०५], अंगसूत्र -[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः
ZGİGİLİLİ
सर्वयन्धकः, स चाष्टादश सागरोपमाणि तत्र स्थित्वा ततश्युतो वर्षपृथक्त्वं मनुष्येषु स्थित्वा पुनस्तत्रैवोत्पन्नः प्रथमसमये चासौ सर्वबन्धकः इत्येवं सर्वबन्धान्तरं जघन्यमष्टादश सागराणि वर्षपृथक्त्वाधिकानीति, उत्कृष्टं त्वनन्तं कालं कथं १, स एव तस्मा|च्च्युतोऽनन्तं कालं वनस्पत्यादिषु स्थित्वा पुनस्तत्रैवोत्पन्नः प्रथमसमये सर्वबन्धक इत्येवं, 'देसबंधंतरं जह० वासपुहुत्तं ति, कथं ?, स एव च देशबन्धकः सन् च्युतो वर्षपृथक्त्वं मनुष्यत्वमनुभूय पुनस्तत्रैव गतः, तस्य सर्वबन्धानन्तरं देशबन्धः, एवं सूत्रोतमन्तरं स्यात् इह यद्यपि समयाधिकं वर्षपृथक्त्वं स्यात् तथाप्येतस्य वर्षपृथकृत्वादनर्थान्तरत्वविवक्षयान भेदेन गणनमिति, एवं | प्राणतारणाच्युतग्रैवेयकसूत्राणि नेयानि, अथ सनत्कुमारादिसहस्रारान्ता देवा जघन्येन नव दिनायुष्येभ्यः आनताद्यच्युतान्ता नवमासायुष्केभ्य उत्पद्यन्ते इति जीवसमासेऽभिधीयते, ततो जघन्यं तत्सर्ववन्धान्तरं तत्तदधिकं ततञ्जवन्यस्थितिरूपं प्राप्नोति इति, सत्यमेतत् केवलं मतान्तरमेवेदं । अनुत्तर विमानसूत्रे 'अणुत्तरोववाइयपुच्छा' 'उक्कोसेणं'ति उत्कृष्टं सर्वबन्धान्तरं देशवन्धान्तरं च सख्यातानि सागराणि, यतो नानन्तकालमनुत्तरविमानच्युतः संसरति, तानि च जीवसमासमतेन द्विसङ्ख्यानीति, अथ वैक्रियवपुर्देशबन्धकादीनामल्पत्वादि आह- 'एएसिन्ति, तत्र सर्वस्तोका वैक्रियसर्वबन्धकाः, तत्कालस्याल्पत्वात्, देशन्धका असङ्ख्यातगुणाः, तत्कालस्य तदपेक्षयाऽसङ्ख्यातगुणत्वात्, अवन्धका अनन्तगुणाः, सिद्धानां वनस्पत्यादीनां च तदपे क्षया अनंतगुणत्वादिति । अथाहारकशरीरप्रयोगवन्धमाश्रित्याह- 'एगागारे 'ति एकप्रकारो, नौदारिकादिबन्धवदे केन्द्रियाद्यनेकप्रकार इत्यर्थः सर्व्वबंधे एकं समयं आद्यसमये एव सर्वबन्धभावात्, 'देसबंधं जहणणेणं अंतोमुहुत्तं उक्को० अंतोमु हुत्त'ति जघन्यत उत्कर्षतश्चान्तर्मुहूर्त्तमात्रमेवाहारकशरीरी स्यात्, परत औदारिकशरीरस्यावश्यं ग्रहणात्, तत्र चान्तर्मुहूर्त्त आद्य
~ 299~
८ शतके
९ उद्देश: