________________
आगम
(०५)
प्रत
सूत्रांक
[ ३४४
३५१]
गाथा:
दीप अनुक्रम [ ४२२
४२९]
श्रीभगः
लघुवृतौ
“भगवती”- अंगसूत्र-५ (मूलं+वृत्तिः) भाग-१
शतक [८], वर्ग [-] अंतर् शतक [-] उद्देशक [९], मूलं [ ३४४-३५१] + गाथा: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [०५], अंगसूत्र -[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः
भूत्वा मृतः, एवं जघन्येनैको देशबन्धकसमयः, 'उक्को० अंतोमुहुत्त' त्ति वैक्रियवपुषा स एव यदाऽन्तर्मुहूर्तमास्ते तदोत्कर्षतो देशबन्धोऽन्तर्मुहूर्त्त, लब्धिवैक्रियशरीरिणो जीवतोऽन्तर्मुहूर्त्तात्परतो न वैक्रियशरीरावस्थानमस्ति, पुनरौदारिकवपुषोऽवश्यं प्रतिपतेरिति, 'रयणप्पहे' त्ति 'दसवाससहस्साई तिसमऊणा' इंति, कथं १, त्रिसमयविग्रहेण रत्नप्रभायां जघन्यस्थितिर्नारक उत्पनस्तत्र समयद्वयमनाहारकस्तुतीयसमये सर्वबन्धक इति ततो देशबन्धको वैक्रियस्य, तदेवमाद्य समयत्रयन्यूनं वर्षसहस्रदशकं जपन्यतो देशवन्धः, 'उक्को० समजणं'ति कथं ?, अविग्रहेण रत्नप्रभायामुत्कृष्टस्थितिर्नारक उत्पन्नस्तत्र प्रथमसमये सर्वबन्धको बैंकि यस्य वपुषः परं देशबन्धकः, तेन सर्वबन्धसमयेनोनं सागरोपममुत्कृष्टतो देशबन्धः, एवं सर्वत्र सर्वबन्धः समयं देशबन्धश्च जघन्यो विग्रहसमयत्रयन्यूनस्वस्वजघन्यस्थितिप्रमाणो वाच्यः सर्ववन्धसमयन्यूनोत्कृष्ट स्थितिप्रमाण उत्कृष्टदेशबन्ध इति एतदेवाह - ' एवं जीवेत्यादि पश्चेन्द्रियतिर्यग्मनुष्याणां वैक्रिय सर्वबन्ध एकं समयं देशबन्धस्तु जघन्यत एकं समर्थ, उत्कर्षणान्तर्मुहूर्त, एतदेव | स्पष्टयति- 'पंचेंदिये' त्यादि, यच्च - "अंतोमुहुत्तं नरएसु, होह चचारि तिरियमणुएसु । देवेसु अद्धमासो, उके सविउच्चणाकालो | || १ ||" इति वचस्सामर्थ्यादन्तर्मुहूर्तचतुष्टयं तेषां देशबन्ध इत्युच्यते तन्मतान्तरमत्र सेयमिति । उक्तो वैक्रियवपुःप्रयोगकालः, अथ तस्यैवान्तरं निरूपयन्नाह - 'वेउच्चिए 'त्ति सर्वबन्धको भूत्वा देशबन्धं च कृत्वा मृतः, ततः परमनन्तकालमौदा रिकशरीरिषु वनस्पत्यादिषु स्थित्वा वैक्रियशरीरिवृत्पन्नः, तत्र प्रथमसमये सर्वबन्धको जातः, एवं सर्वबन्धयोर्यथोक्तमन्तरं स्यात्, 'एवं देसबंधंतरंपि त्ति जघन्येनैकसमयं उत्कर्षतोऽनन्तकालमिति, भावना चास्य प्रागुक्तानुसारेण । 'वाउकाइयवे उब्विय'त्ति 'सव्वबंधंतरं जहणेणं अंतोमुहुत्तं', कथं १, वायुरौदारिकशरीरी वैक्रियमाश्रितः, तत्र प्रथमसमये सर्वबन्धको भूत्वा मृतः पुनर्वायुरेव जातः,
~ 296~
८ शतके १९ उद्देशः
॥१४४॥