SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [३४४ ३५१] गाथा: दीप अनुक्रम [ ४२२ ४२९] श्रीभग० लघुवृत्तौ “भगवती”- अंगसूत्र-५ (मूलं+वृत्तिः) भाग-१ शतक [८], वर्ग [-] अंतर् शतक [-] उद्देशक [९], मूलं [ ३४४-३५१] + गाथा: मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०५], अंगसूत्र-[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः |ण्येकसमयाधिकानि एकेन्द्रियाणां सर्वबन्धयोरुत्कृष्टमन्तरं स्यात्, 'देसबंधंतरं 'ति तत्रैकेन्द्रियौदा रिकदेशबन्धान्तरं जघन्येनैकं समयं कथं ?, देशबन्धको मृत्वा अविग्रहेण सर्वबन्धको भूत्वा एकस्मिन् समये पुनर्देशबन्धक एव जातः, एवं देशबन्धयोर्जघन्यत एकस्समयोऽन्तरं स्यादिति, 'उ० अंतोमुद्दत्तं 'ति, कथं १, वायुरौदारिकवपुपो देशबन्धकः सन् वैक्रियं गतस्तत्रान्तर्मुहूर्त्त स्थित्वा | पुनरौदारिकवपुपस्सर्वबन्धको भूत्वा देशबन्धक एवं जातः, एवं देशबन्धयोरुत्कर्षतोऽन्तर्मुहूर्तमन्तरं, 'पुढविकाइए'ति 'देसवंधंतरं जपणेणमेकं समयमुक्कोसेणं तिन्नि समय'त्ति कथं १, पृथिवीकायिको देशबन्धको मृतः सन् अविग्रहगत्या पृथि वीकायिकेष्वेवोत्पन्नः एकसमयं सर्वबन्धको भूत्वा पुनर्देशबन्धको जातः, एवमेकसमयो जघन्येन देशबन्धयोरन्तरं, तथा पृथ्वीकायिको देशबन्धको मृतस्सन् विग्रहगत्या त्रिसमयया तेष्वेवोत्पन्नः, तत्र समयद्वयमनाहारकस्तृतीयसमये सर्वबन्धको भूत्वा पुनदेशबन्धको जातः, एवं समयत्रिकं देशबन्धयोरंतरमिति, नवरंकथनाद्यलुब्धमतिदेशतस्सङ्क्षेपतस्तद् दर्श्यते - अपकायिकानां जघन्येन सर्वबन्धान्तरं क्षुल्लकभवग्रहणं त्रिसमयोनं, उत्कृष्टं तु ७ वर्षसहस्राणि समयाधिकानि, देशबन्धान्तरं तु जघन्यमेकसमयः, उत्कृष्टं तु समयत्रिकं, एवं वायुवर्जानां तेजःप्रभृतीनामपि, नवरं सर्वबन्धान्तरमुत्कृष्टं निजनिजस्थितिसमयाधिका वाच्या, वायुबन्धान्तरं भेदेनाह 'वाउकाइयाणं'ति वायुकायिकानां उत्कर्षेण देश बन्धान्तरमन्तर्मुहूर्त्त कथं १, वायुरौदारिकवपुषो देशबन्धकः सन् वैक्रियमन्तर्मुहसं कृत्वा पुनरौदारिकसर्वबन्धसमनन्तरं औदारिकदेशबन्धुं यदा कुर्यात् तदा यथोक्तमन्तरं स्यात्, 'पंचिदिए'ति तत्र सर्वबन्धान्तरं जघन्यं भावितमेव, उत्कृष्टं तु भाव्यते पञ्चेन्द्रियतिर्यग् अविग्रहेणोत्पन्नः प्रथमसमये सर्वबन्धकः, ततस्समयोनां पूर्व कोटिं जीवित्वा त्रिसमय विग्रहेण तेष्वेवोत्पन्नः, तत्र द्वावनाहारकसमयौ तृतीयसमये सर्वबन्धको जातः, अनाहारकसमययोश्चैकः समयः ~ 292~ पट शतके उद्देशः ॥१४२॥
SR No.006211
Book TitleAagam 05 Bhagavati Daanshekhariyaa Vrutti Ang Sutra 5 Part 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages312
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size90 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy