________________
आगम
(०५)
प्रत
सूत्रांक
[ ३४४
३५१]
गाथा:
दीप अनुक्रम [ ४२२
४२९]
श्रीभग० लघुवृत्तौ
“भगवती”- अंगसूत्र-५ (मूलं+वृत्तिः) भाग-१
शतक [८], वर्ग [-] अंतर् शतक [-] उद्देशक [९], मूलं [ ३४४-३५१] + गाथा: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [०५], अंगसूत्र -[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः
TCTİCİCİGDİGİGİDİCİGO
परिवर्त्तमानत्वेन बन्धस्य सपर्यवसितत्वानुपपत्तेरिति, अथ तृतीयो भङ्गः प्रोच्यते- 'तत्थ णं जे से साइए ति सिद्धानां सादिरपर्यवसितो जीवप्रदेशबन्धः, शैलेश्यवस्थायां स्थापितप्रदेशानां सिद्धत्वेऽपि चलनाभावादिति, अथ चतुर्भङ्गीभेदत आह-'आलाव| णबंधे 'ति आलाप्यते - आलीनं क्रियते एमिरिंति आलापनानि-रज्ज्वादीनि तैस्तृणादिवन्धनमालापनबन्धः, 'अल्लियावणबंधे 'त्ति अलियावणं-द्रव्यस्य द्रव्यान्तरश्लेषादिना आलीनस्य करणं तद्रूपो यो बन्धः स तथा, 'सरीरबंधे' ति समुद्घाते सति यो विस्तारितसङ्कोचितजीव प्रदेशबन्ध विशेषात् तैजसादिवपुः प्रदेशानां बन्धविशेषः सः, शरीरिबन्ध इत्यन्ये, तत्र शरीरिणः समुद्घाते विक्षितजीवप्रदेशानां सङ्कोचने यो बन्धस्स शरीरिबन्ध इति, सरीरप्पओगबंध' त्ति शरीरस्य-औदारिकादेर्यः प्रयोगेण-वीर्यान्तरायक्षयोपशमजनितव्यापारेण बन्धः - तत्पुद्गलोपादानं शरीररूपस्य वा प्रयोगस्य बन्धस्त शरीरप्रयोगबन्धः, 'वेत्तलय'त्ति वेत्रलताजलवंशकंवा 'वाग'ति वल्का'वरत्त'त्ति वरत्रा- चर्ममयी रज्जुः शनादिमयी वा वल्ली त्रपुष्यादिका कुशा-निर्मूला दर्भाः दर्भास्तु | समूला: आदिशब्दाच्चीवरादिग्रहः, अथ 'लेसणबंध'ति श्लेपणा - श्लेषद्रव्येण द्रव्ययोस्तम्बन्धनं तद्रूपो यो बन्धस्स तथा 'उच्चयबंधेति ऊर्ध्व चयनं - राशीकरणं तद्रो बन्धः उच्चयबन्धः, 'समुचय'त्ति सङ्गतः- उच्चयापेक्षया विशिष्टतरः उच्चयस्समुचयः स एव बन्धस्समुचयबन्धः, 'साहणणावंचे 'ति संहननं - अवयवानां सङ्घातनं तद्रूपो यो बन्धः, दीर्घत्वादि च प्राकृतत्वात् कुट्टिमानांमणिभूमिकानां, 'सिलेस'त्ति श्लेषो वज्रलेपः, 'लक्ख'ति लाक्षा, जतुरित्यर्थः 'महुसित्य'त्ति मधुसिक्थं-मीनं, आदिशब्दाद् गुग्गुलरालाखल्यादिग्रहः, 'अवगररासीण'न्ति कचवर राशीनां 'उच्चएणं' ति ऊर्ध्वचयनेन 'अगडतलाये' त्यादि प्रायः प्राग्व्याख्यातमेव, 'देससाहणण' ति देशेन देशस्य संहननलक्षणो बन्धः-सम्बन्धः शकटाङ्गादीनामिवेति देश संहननसम्बन्धः, 'सव्व
286~
८ शतके
९ उद्देशः
॥१३९॥