________________
आगम
(०५)
प्रत
सूत्रांक
[३१५
३२२]
गाथा:
दीप अनुक्रम [३८८
३९६]
श्रीभग०
लघुवृचौ
“भगवती”- अंगसूत्र-५ (मूलं+वृत्तिः) भाग-१
शतक [८], वर्ग [-] अंतर् शतक [-] उद्देशक [२], मूलं [ ३१५-३२२] + गाथा: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [०५], अंगसूत्र- [ ०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः
मक्षरात्मकत्वेनाक्षरपर्यायोपेतत्वादनन्ताः श्रुतज्ञान पर्याया इति, 'जाव'ति यावत्करणादिदं दृश्यं, 'केवइया ओहिनाणपञ्जवा पण्णत्ता ! गोयमा ! अणंता, केवइया भंते! मणपञ्जवनाणपञ्जवा पण्णता ?, गो०! अनंता, केवइया केवलनाणपजवा पं०१, गो०! अनंता' | तत्रावधिज्ञानस्वपर्यायां येऽवधिज्ञानभेदाः, भवप्रत्ययक्षयोपशमभेदात्, नारकतिर्यङ्गमनुष्यदेवरूपतत्स्वामिभेदात् असङ्ख्यात| मेदतद्विषयक्षेत्र कालभेदादनन्ततद्विपयद्रव्यपर्याय भेदाद विभागपरिच्छेदाच, ते चैत्रमनन्ता इति, मनःपर्यायकेवलज्ञानस्व पर्यायाः परिच्छेदापेक्षया अविभागपलिच्छेदापेक्षया चेति एवं मत्यज्ञानादित्रयमभ्यूयमिति, अथ पर्यवापबहुत्वमाह, इह स्वपर्यायापेक्षयैवपामल्पबहुत्वमवसेयं स्वपरपर्यायापेक्षया सर्वेषां तुल्यपर्यायत्वादिति, तत्र सर्वस्तोका मनःपर्यायज्ञानपर्यायाः, तस्य मनोमात्रविषयस्वात्, तेभ्योऽवधिज्ञानस्य अनन्तगुणाः, द्रव्यपर्यायतोऽनन्तगुण विषयत्वात्, तेभ्यः श्रुतज्ञानपर्याया अनन्तगुणाः, तस्य रूप्यरूपिद्रव्यविषयत्वेनानन्तगुण विषयत्वात्, ततोऽप्यामि निवोधिकज्ञानपर्याया अनन्तगुणाः, तस्यामिलाप्यानभिलाप्यद्रव्यादिविषयत्वेनानन्तगुणविषयत्वात् ततः केवलज्ञानपर्याया अनन्तगुणास्सर्वद्रव्यपर्यायविषयत्वात् तस्येति, अज्ञानमूत्रे ऽप्यल्पबहुत्वं सूत्रानुसारेणोहनीयं, मिश्रसूत्रे स्तोका मनःपर्यायपर्यवाः, इहोपपत्तिः प्राग्वत्, तेभ्यो विभङ्गपर्यया अनन्तगुणाः, मनःपर्यायापेक्षया विभङ्गस्य बहुतमविषयत्वात् तथाहि विभङ्गज्ञानं ऊर्ध्वाधः उपरिमग्रैवेयकादारभ्य सप्तमपृथिव्यन्तक्षेत्रे तिर्यक् चासङ्ख्यातद्वीपसमुद्ररूपे यानि रूपिद्रव्याणि तानि कानिचिज्जानाति कांश्चित्पर्यायांथ, तानि च मनःपर्यायापेक्षयाऽनन्तगुणानि, तेभ्योऽवधिपर्याया अनन्तगुणाः, अवधेः सकलरूपिद्रव्यप्रतिद्रव्यासङ्ख्यातपर्यायत्वेन विभङ्गापेक्षया अनन्तगुण विषयत्वात्, तेभ्योऽपि श्रुताज्ञानपर्यवा अनन्तगुणाः, श्रुताज्ञानस्य श्रुतज्ञानवदोघादेशेन समस्तमूर्त्तामूर्त्तद्रव्यासर्वपर्यायविषयत्वेनावधिज्ञानापेक्षया अनन्तगुण विषयत्वात्, तेभ्यः श्रुतज्ञा
~261~
शतके
२ उद्देशः