________________
आगम
(४३)
प्रत
सूत्रांक
[3]
गाथा
||४४१
४९३||
दीप
अनुक्रम
[४४२
४९४]
“उत्तराध्ययन”- मूलसूत्र -४ (निर्युक्तिः + चूर्णि :)
अध्ययनं [१४],
मूलं [...] / गाथा ||४४१-४९३ / ४४२-४९४||
निर्युक्ति: [३६०...३७३/३६०-३७३],
मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [ ४३], मूलसूत्र - [०३] उत्तराध्ययन निर्युक्तिः एवं जिनदासगणि-रचिता चूर्णि :
श्री उत्तरा० चूर्णी
१४ इपुकारीये
॥२२६॥
जीवोऽस्ति, कुतः ?, प्राणापाननिमेषोन्मेष जीवनमनोगतेन्द्रियान्तराव कारसुखदुःखोपलब्धेः इत्यात्मनि एते भावा भवन्ति, को दृष्टान्तः यथा वायुः, शाखाभः करणैरप्रत्यक्षोऽप्यस्मदादिभिरुपलभ्यते, तथा चात्मा प्राणापान निमेषोन्मेषजीवनमनोगतेन्द्रियांतरविकारसुखदुःखेच्छाद्वेषप्रयत्नप्रभृतिभिः प्रत्यक्षैरनुमीयते अस्ति स जीवो एषां भावानां कर्चेति तस्मात् प्राणापाननिमेषोन्मेषजीवनमनोगतीन्द्रियांतर विकारसुखदुःखोपलब्धीरपि पश्यामः, जीवोऽस्तीति इतथ जीवोऽस्ति कुतः १, पूर्ववृत्तार्थस्मरणाद, को दृष्टान्तः १, यथा घटः पूर्ववृत्तस्मर्त्ता न भवति न च तथाऽऽत्मा, आत्मा हि इहलोकवृत्तानामर्थानां कश्चिच्च परलोक वृत्तानामप्यर्थानां जातिस्मर्त्ता भवति, तस्मात् पूर्ववृत्तस्मरणात् पश्यामः जीवोऽस्ति यद्यस्तीति कथं निस्सरन् प्रविशन् वा नोपलभ्यते १, उच्यते- 'नोइंदियाग्गज्० ' ॥ ४५९-४०३॥ वृत्तं, गोइंदियग्राह्यः कथं नोइंदियग्राह्यः १, उच्यते, अमूर्तत्वाद, नोइन्द्रियं मनः, मनश्चात्रैव, अतः स्वप्रत्यक्ष एवायमात्मा, कस्मात् ?, उच्यते त्रैकाल्यकार्यव्यपदेशात्, तद्यथा कृ(ज्ञा) तवानई जानेऽहं ज्ञास्येऽहमिति योऽयं त्रिकालकार्यव्यपदेशहेतुः अहंप्रत्ययोऽयमानुमानिको न, नागमिकः, किं तर्हि ?, स्वप्रत्यक्ष एवायं अनेनैवात्मनां प्रतिपाद्यत्वात्, नायमनात्मके घटादावुपलभ्यते, इहेन्द्रियातिरिक्तो विज्ञाता तदुपरमेऽपि तदुपलब्धार्थानुस्मरणात्, यो हि तदुपरमेऽपि तदुपलब्धमनुस्मरति स तस्मात् अर्थान्तरमुपलब्धा दृष्टः, यथा पंचवातायनोपलब्धार्थानुस्मर्त्ता देवदत्त इति, अतः गोइंदियगिज्ड अमृतभावादिति, अमूर्त्तत्वाच्च नित्यः, आह-- आकाशस्येव नित्यस्यामूर्त्तस्य कथं जीवस्य बन्धो भवति ?, उच्यते, 'अब्भत्थहेडं णिततस्स बंध' आत्मानं प्रति यद्वर्त्तते तदध्यात्मं तच्च रागद्वेषमोह मिथ्यादर्शनाविरतिप्रमादकषाययोगा', 'हेड'ति हेतुः कारणं तु, अपदेशः - निमित्तं, अस्मात् कारणात् नित्यत्वामूर्त्तत्वसामान्येऽपि आकाशस्य सति वैशेषिको
[231]
नास्तिक
पक्ष
तत्खण्डनं च
|॥२२६॥