SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली यदि कुमारो द्वात्रिंशल्लक्षणलक्षितोऽस्ति, तर्ह्यहमपि ततोऽधिकलक्षणचतुष्टयवानस्मि । अत एनमेवानेन प्रपञ्चेन वञ्चयानि तर्हि वरमित्यवधार्य ताः प्रत्यवोचत् - हे देव्यः ! मया बहूनि सत्पात्रदानानि कृतानि, शीलम्पालितम् अनेकधा श्रीसङ्घसार्थीकृत्य यात्रा कृता, सहस्रशः स्वामिवात्सल्यं व्यधात्, तथा पौषधप्रतिक्रमणसामायिकभगवत्पूजनादिकं बहुधा कृतम्, तत्पुण्यपुञ्जप्रभावादेवाहमत्र देवो जातोऽस्मि । इत्थं तद्वाचमाकर्ण्य कुमारेणाऽचिन्ति - अहो ! मम चेष्टितमिदमप्यनेनाऽबोधि । एषापि युक्तिर्न सिद्धा । एनं मतिमद्गरिष्ठं महाचौरं कया रीत्या गृह्णामि ?। प्रान्ते कापि युक्तिर्यदा कुमारस्य तन्निग्रहे न मिलिता, तदा तदीयचरणयोर्दण्डवत्पपात स कुमारः । तत्रावसरे पादानतं कुमारं स वक्ति-स्वामिन् ! त्वं कस्माद् बिभेषि, येन मे चरणे पतितोऽसि । प्रधानो वक्ति - हे मतिमन् ! ममेदानीं राज्ञो भीतिर्विद्यते । इत्याकर्ण्य तेनोक्तम् - हे स्वामिन् ! तवापि यदीदृशी भीतिरस्ति, तर्हि मम कीदृशी सा भवेत् ? तदा कुमारेणोक्तम् - भोः ! त्वं मा भैषीः । तव भीतिवारणमहमसंशयङ्करिष्यामि । ततस्तं प्रतिबोध्य राजान्तिकं कुमारोऽनयत् । राजोवाचएनमिदानीमत्र किमर्थमानीतवानसि । अत्रावसरे प्रधानस्तमेवं जगादहे महाराजाधिराज! यं निग्रहीतुं भवद्दत्तां ताम्बूलवीटिकामहमग्रहीषम्, तमेवेहानीतवानस्मि, एष त्वां नमस्कर्तुमागतोऽस्ति । एतत्कृतां प्रणतिततिं गृहाण । एतस्मै धन्यवादपुरस्सरं मान्यविशेषं देहि । यतः परैरगम्यामेनां महतीं नगरीं महर्द्धिशालिनीं शासतः सिंहस्येव तव मुखाद्भक्षणमसौ 54 —
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy