________________
सूक्तमुक्तावली
शोभमानदिव्यशय्योपरि स्थितमात्मानं विलोकयन् तथा ताः कन्याश्च पश्यन् किमहं देवोऽभूवमिति वितर्कयन् ताभिरेकस्वरेण "जय जय नंदा जय जय भद्दा" इत्युच्चरन्तीभिर्भणितः - स्वामिन् ! कामीदृशीं तपस्यामकृथाः, येन त्वमधुना दैवीं समृद्धिं प्राप्तवानसि ।
अभयकुमारोऽपि तत्रावसरे कन्याकृतप्रश्नस्योत्तरं श्रोतुकामच्छन्नस्तस्थौ । यतः कुमार इतीच्छया तथाऽकरोत् । यदेवंकृते किलाऽऽश्चर्यलीलां वीक्ष्य नैसर्गिकीमात्मवृत्तिं वक्ष्यति नूनम् । इति हेतोः कुमारः कर्णं ददद् गुप्तः कुत्रापि समीपदेशे स्थितोऽभूत् ।
1
I
इतश्च स रोहिणीयः स्वस्थी - भूतो दिव्यं तद्भवनं अप्सरस इवाऽग्रे स्थितास्ताः कन्याश्च तथा तासां भाषणं दिव्यां शय्याञ्च विलोक्य सत्यमेवाहं देवो जातोऽस्मीति यावद्वक्तुं लग्नः, तावद् भगवता महावीरेणोक्तां याङ्गाथां पुरा शुश्राव, तस्याः स्मृतिर्जाता । ततश्च स मनसि दध्यौ -अहो ! किं मे स्वप्नः भ्रमो वा ? यत्प्रभुणोक्तं - देवाः पृथिवीं न स्पृशन्ति, किन्तु पृथिवीतश्चतुरङ्गुलोर्ध्वं तिष्ठन्ति । एतास्तु तथा न दृश्यन्ते, सर्वा भूमिं स्पृशन्ति । देवता निमेषशून्या भवन्ति । एतास्तु सनिमेषोन्मेषा दृश्यन्ते । किञ्चैतासां कण्ठस्थाः कुसुमस्रजो म्लाना भवन्ति । देवानां तु तथा न भवन्ति, तथा देवानामखिलं मनोवाञ्छितं सिद्ध्यति । एतासां तु यानि यानि लक्षणानि भगवान्नवोचत तेषां सर्वेषां का वार्ता ? किन्तु देवताया एकमपि लक्षणं नैव दृश्यते, नूनमेतत्सर्वं मां वञ्चयित्वा मदीयं सत्यस्वरूपं बोद्धुं कुमार एवं कृतवान् । नैता देव्यः, नैवेदं स्वर्गीयभवनम् । सर्वमिदं मम वञ्चनार्थमेव कुमारेण प्रपञ्चितमस्ति भवतु ।
I
53