________________
सूक्तमुक्तावली निखिलनिगमनिष्ठं शब्दशास्त्रे पटिष्ठम्, स्वपरसमयविज्ञं श्रीलराजेन्द्रसूरिम् । सकलसुगमबुद्ध्यै सम्प्रणम्य प्रकुर्वे, ललितसरलगधैः सूक्त-मुक्तावली ताम्
રા विषयक्रमसंग्रहः-शार्दूलविक्रीडितछन्दसितत्त्वज्ञान १ मनुष्य २ सज्जनगुणा ३ न्याय ४ प्रतिज्ञा ५ क्षमाः ६, चित्ताचं ७ च कुलं ८ विवेक ९ विनयौ १० विद्यो ११ पकारो १२ घमाः १३ । दान १४ क्रोध १५ दया - १६ दितोष १७ विषयाः १८ त्याज्यप्रमादस्तथा १९, साधुश्रावकधर्मवर्गविषये ज्ञेयाः प्रसंगादमी २०-२१ ॥२॥
अत्रैतस्याधिकारवाचकस्य पद्यस्य सुगमत्वान्नो टीका कृतेत्यवसेयं विद्वद्वर्यः ।
धर्मार्थकाममोक्षवर्गचतुष्टयेन समलकृतेयं सूक्त-मूक्तावली भव्यानाम्, मानुष्यत्वसफलीकृते महीयसी साहाय्यभूता वरीवर्तते । यदुक्तम्
उपजातिछन्दसित्रिवर्गसंसाधनमन्तरेण, पशोरियायुर्विफलं नरस्य । तत्रापि धर्म प्रवरं वदन्ति, न तं विना यद् भवतोऽर्थकामौ ॥
इतिधर्मस्य प्राधान्यात, प्रथमं धर्ममुपक्रम्य देवगुरुधर्मतत्त्वादिक्रमेण तदुच्यते।
2