________________
सूक्तमुक्तावली
साहित्य-विशारद-विद्याभूषणश्रीमद्विजयभूपेन्द्रसूरीश्वर-विरचिता
|| सूक्त-मुक्तावली ।।
तत्राऽऽदौ मङ्गलाचरणम्
मालिनी-छन्दसि सकलसुकृतवल्लीवृन्दजीमूतमालां, निजमनसि निधाय श्रीजिनेन्द्रस्य मूर्तिम् । ललितवचनलीलालोकभाषानिबद्धैरिह कतिपयपद्यैः सूक्तमालां तनोमि
॥१॥ स्रग्धराछन्दसिकैवल्यज्ञानयोगादनुभवनगतान रूप्यरूप्यादिभावान्, पश्यन्तं पाणियाताऽऽमलकमिव चरस्थूलसूक्ष्मप्रभेदान् । चतुष्षष्टीन्द्रजुष्टं प्रणतसुरनराऽशेषविघ्नोपशाम, नामं नामं दयाब्धिं भवजलधितरिं त्रैशलेयं जिनेन्द्रम् ॥१॥
गीतिछन्दसिज्ञानावरणकर्माष्ट-निर्मूलकरीं सकलार्थदां वाणीम् । श्रुतसागरपारगतां, सकलागमबोधदायिनीं वन्दे ॥२॥
(युग्मम् ) मालिनीछन्दसि