________________
मोक्षार्थसाधनफलं प्रवरं वदन्ति, सन्तः स्वतो जगति तेऽपि चिरं जयन्तु
॥४१॥ हे भव्यजीवाः ! सर्वतः श्रेष्ठं शाश्वतममुं मोक्षं भजत । येन भवन्तोऽसारसंसारान्मुञ्चेयुः । पुरुषोत्तमस्तीर्थङ्करः प्रभुर्मोक्षसाधनमेव साधीयः फलं सर्वत्र निगदति । ये पुनस्तं साधयन्ति, त एव धन्या मान्या भव्याः प्राणिनो जगति चिरं जयन्तु चिरायुषो विजयन्ते नेतरे । अतो मोक्षार्थं यतितव्यं श्रेयोऽर्थिभिः सर्वैरिति ||४१||
सूक्तमुक्तावली
अथ ग्रन्थं समापयन्नुपसंहरति ग्रन्थकर्ता - धर्मार्थकामवरनिर्वृतिसत्यमार्ग,
किञ्चिन्मया प्रकटितोऽत्र हितोपदेशः । सन्मार्गगामिसुनरैः शुभबुद्धिययैस्तस्य स्वरूपमवगम्य सुधारणीयम्
॥४२॥ इह हि-धर्मार्थकाममोक्षचतुर्वर्गेषु मया यत्किञ्चिदुपदेशलेशः प्रकटितः - स्फुटीकृतः स सन्मार्गगामिभिर्मोक्षपथ - पथिकैर्भव्यैः स्वचेतसि सदैव भावनीयः । भावयित्वा च तत्तत्त्वमधिगन्तव्यं तथैवाऽऽत्मनि धारणीयं स्वीकर्त्तव्यं इति शेषः || ४२ ॥
उपजाति-वृत्ते
इत्येवमुक्ता किल सूक्तमाला, विभूषिता वर्गचतुष्टयेन ।
तनोतु शोभामधिकं जनानां, कण्ठस्थिता मौक्तिकमालिकेव
386
॥१॥
धर्मार्थकाममोक्षवर्गैश्चतुर्भिः खण्डैर्विभूषिता - सुमण्डिता मयेत्थं