SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली १३- अथ मद्यपानव्यसनिनो जितशत्रुक्षितिपस्य कथायथा-वसन्तपुरनगरे जितशत्रुनृपो वर्तते, सुकुमालिका तस्य प्रेयसी महीयसी राज्ञी विद्यते, उभावपि दिवानिशं सुरापायिनौ बभूवतुः । तदासक्तौ राजकार्यं किमपि नैव चक्रतुः । तेन हेतुना तत्पुत्रः प्रधानेन सह मन्त्रयित्वा मद्यपानव्यसनासक्तौ तावुभावेकदा चन्द्रहाससुरां यथेष्टं पाययित्वा यत्किञ्चिद्धनादिकं पाथेयञ्च दत्त्वाऽतिदूरे महाटव्यां मोचितवान् । तत्र दिनत्रयानन्तरं सञ्जातस्वास्थ्यो राजा व्यचिन्तयत्- अहो ! क्व मे प्रासादः ? अहमत्र कथमागतोऽस्मि ? अथ भयभ्रान्तचेता राजा तत्रशयनेपाथेयंधनादिकं दृष्ट्वा निश्चितवान्-यन्मांमद्यव्यसनित्वादयोग्य मत्वाऽत्राऽमोचयन्मन्त्री | भवतु, यद्भाव्यं तद्भवत्येव । ततो राजा सभार्यः पुरोऽचलत्तदैव मद्यं प्रत्याचचक्षे । मार्गेऽथ राज्ञी तृषातुरा जलमयाचत । तदा कुत्राऽपि जलमलभमानो राजा रहसि निजोरुं छित्त्वा पत्रपुटके रक्तं गृहीत्वा राज्ञीमवादीत-अयि प्रिये ! जलमत्र सम्यक् कुत्रापि नास्ति । तृषा च त्वामधिकं बाधते, अत एतज्जलं नेत्रे निमील्य पीयता, सापि तथैव तत्पपौ । ततोऽग्रे क्षुधार्ता राज्ञी जगाद-मम क्षुधा महती लग्नाऽतः पदमपि गन्तुं न शक्नोमि । तत्रावसरे राजा निज-जङ्घामांसं खण्डशः कृत्वा तस्यै ददौ सा तदपि जघास। तदन्वग्रे चलन् कञ्चनपुरनगरमाययौ, तत्र कस्यचिद् गृहं भाटकेन लात्वा भार्यया सह तस्थौ । तत्रैकदा स दध्यौ-मम पार्वे -257
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy