SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ I सूक्तमुक्तावली तं नृपान्तिकं निनाय । तेन च तुष्टो राजा तस्मै देशमेकं दत्त्वा राजानमकरोत्, तद्दिनात्तस्य सहस्रमल्ल इति नाम पप्रथे, स राज्ञः प्रेमपात्रमभूत् । कालसन्दीपनञ्च गर्वमुक्तं व्यधात्, तदनु नृपादेशमशेषमङ्गीचक्रे, नृपाऽऽज्ञया च स्वनगरमाययौ । सहस्रमल्लनृपो राजस्नेहितयाऽन्यान् सर्वान् तृणाय मन्यमानः सर्वत्राऽकुतोभयः केसरीव बभ्राम | अथैकदा तत्र चतुर्ज्ञानी श्रुतसारसूरिराययौ, तद्वन्दनार्थं नृपादयः सर्वे लोका आययुः । सहस्रमल्लोऽपि निजपरिवारयुतस्तत्राऽऽगात् । वन्दित्वा यथास्थानमुपविष्टे नृपादिके लोके स सूरिर्भविकजनमुद्दिश्य देशनां प्रारभत तथाहि- भो भो ! लोकाः सावधानतया शृणुत- यदिह संसारे कोऽपि शूरो, दाता, विद्वांश्च नास्ति । अथवा कस्यापि वाक्पटुता नास्ति, तदैतन्मात्रमेव श्रुत्वा सहस्रमल्लो जगाद - भगवन् ! भवदुपासको भवदग्रेऽहमेव शूरस्तिष्ठामि । योऽहं नृपादेशात्परैरग्राह्यं सुदुष्टं कालसन्दीपनमेकाक्येव बद्ध्वा नृपान्तिकमनयम् । इत्थं मयि शूरे विद्यमाने नास्ति कोऽपि शूर इति किं ब्रूषे ? तत्रावसरे गुरुणोक्तम्अप्पा चेय दमेअव्यो, अप्पा हु खलु दुद्दमो । अप्पा दंतो सुही होइ, अस्सि लोए परत्थ य usu अयमर्थोऽस्या गाथायाः भो ! आत्मा एव दमितव्योवशीकर्तव्यः, हु इति निश्चयेन, खलु यस्मात्कारणादात्मा दुर्दमोदुर्जेयो वर्तते आत्मानं दमन् जीवोऽस्मिन् लोके परत्र - परभवे च सुखी भवति । यतः परेषां दमनेन शौर्यं न जायते यो हि निजेन्द्रियैः सह निजात्मानं जयति, स एव शूरो निगद्यते । 230
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy