________________
सूक्तमुक्तावली रक्तं न निरगात् पय एव किञ्चिदुदगच्छत् । तदाश्चर्यं विलोक्य स दध्यौ-अहो ! अन्येषां मया दष्टे रक्तं प्रस्रवति, एतस्य तु दुग्धं वहति, इति महाश्चर्यं लगति।
इत्थं विचिन्तयन् स प्रभुणा भणितस्तथाहि-हे चण्डकौशिक! इदानीमपि त्वं न प्रतिबुद्धोऽसि ? कोपकरणादेव त्वमत्र सर्वमयदो भीषणः सर्पोऽभूः | अधुनापि तथा कुरुष्व येनेमं संसारमुत्तीर्य सद्गतिमधिगच्छ। इति प्रभुमुखाच्छ्रत्वा सञ्जातजातिस्मरणो बिलाद् बहिरागतः स फणी प्रभु त्रिःप्रदक्षणीकृत्य त्रिवारं शिरसा नमस्कृत्य तमूचे-हे स्वामिन् ! शरणागतवत्सल ! मामधुना तारय तारय । हे अनन्तभवसन्तापवारक ! संसारसागरनिमज्जत्प्राणिसमुद्धरणपटो ! मद्भाग्योदयवशादेवाऽत्राऽऽगतोऽसि, ततो निरशनं व्रतं दीयतां, तदा प्रभुस्तस्मै पञ्चदशदिवसानशनमदात् ।
तदनुगृहीताऽनशनः सस्वशरीरमुत्ससर्ज। तथाहि-ममैतच्छरीरे ममता नास्ति, यदेतदनित्यमित्यवधार्य मुखं बिलान्त-निधाय शेषाङ्गं बहिर्विधाय तस्थौ । ततःप्रभृति कस्याऽप्यपराधं मनागपि नाऽकरोत् । ततश्च नागदेवः सर्वोपरि तुष्टोऽभूदतो न कमपि कदापि दशतीति लोकास्तं तुष्टुवुः । अस्माकमेष पूज्य इति विदन्तः सर्वे जनास्तं भक्त्या पूजयन्ति स्म । तदङ्गेकियन्तोघृतं, कियन्तोदुग्धं, चान्ये नवनीतमित्यादि नित्यं क्षेप्तुं लग्राः । ततस्तच्छरीरं घृतमेलकीटि काः समागत्य भृशं भक्षयन्ति स्म । तदनुतत्कायश्चालनीव सहसच्छिद्रतामापत् । तथापिस शमतां न जहाति स्म । ततः शुभध्यानतो मृत्वाऽष्टमदेवलोकं गतः । 1. वज्रतुण्डकीटिका, इत्पर्थः
- 193