________________
सूक्तमुक्तावली परद्रव्यापहारमनेककष्टदाने कारागारं मत्वा त्रियोगेन त्वरितमेव हे भव्यजनाः ! यूयं सर्वे चौर्यं त्यजत । नो चेदिह परलोके चैतत्फलपाककाले केऽपि त्रातारो नैव भवेयुः । पश्यत, स्मरत, रोहिणीयनामानं चोरमभयकुमारो बुद्धिचातुर्येण यथाऽग्रहीदिति तथाऽन्येऽपि नृपादिभिर्निगृहीता महादुःखानि प्राप्नुयुः ।।६०||
अथ २५-कुशील-विषयेअयश पडह यागे लोकमां लीह भागे, दूरजन बहु जागे जे कुले लाज लागे । सुजन पण विरागे मा रमे एण रागे, परतिय रस रागे दोषनी कोडि जागे
॥१॥ इह संसारे नृणां परस्त्रीसङ्गतः सर्वत्र निन्दा जायते त्रपातः श्याममुखा भवन्ति शत्रवश्वोत्पद्यन्ते । कुलमवदातमपि मलिनीभवति सत्पुरुषैश्च तेऽनाद्रियन्ते। किं बहुना परस्त्रीरागतो दोषकोटिरुत्पद्यते, अतः परदाराः परोच्छिष्टवदग्राह्यं मत्वा सदैव त्याज्याः ||६१|| पर तिय रस रागे नाश लंकेश पायो, पर तिय रस त्यागे शील गंगेय गायो । द्रुपद जनक पुत्री विश्च विधे विदीती, सुर नर मिलि सेयी शीलने जे धरती
॥६२॥ इह महाबलीयान् मतिमानपि रावणः परस्त्रीरसरागतः सीतामपहृतवान् । ततो रामचन्द्रः सङ्गरे रावणं सकुलमनीनशत् । परदारात्यागतो भीष्मो-गाङ्गेयो महत्तरं यशआजन्मशीलपालनादतुलं बलं चाऽऽसवान् । तथाद्रौपदीजानकीप्रमुखाः सत्यः शीलप्रभावान्महतीं
-
- 179