________________
सूक्तमुक्तावली । अथ तत्कालमेव शासनदेवता मृषावादिनं तं वसुराजं सिंहासनादधः पातयामास तेन तदैव स मृत्वा नरकमगमत् ।
अहो ! एवमेकवारमप्यलीकभाषणाद्यदि वसुराजस्य नारकी गतिरजायत, तर्हि भूयो भूयोऽसत्यं भाषमाणस्य यादृशी गतिः स्यात्सा तु केवलिवेद्यैव । अतो धर्ममर्मविद्भिः सन्नरैरनृतं कदाऽपि नैव भाषितव्यम् । सत्यमेव सर्वदाखिलसुखेप्सितैः सर्वैर्वक्तव्यम्। अथ २४ - चौर्य - विषये
I
पर धन अपहारे स्वार्थपे चोर हारे, कुल अजस वधारे बंध घातादि धारे । पर धन तिण हेते सर्प ज्यूं दूर वारी, जग जन हितकारी होय संतोषधारी
॥५९॥
तथाहि-ये केचन कुलमर्यादां हित्वा स्वार्थसाधनाय परधनानि चोरयन्ति । तेषां लोके महती निन्दा जायते, राजदण्डकारागारनिवासादिकमाप्नुवन्ति । कुलमपि कलङ्कितं कुर्वते कुत्रचिच्चौरा मार्यन्ते च । अतः सर्पादिव चौर्यादतिदूरे स्थातव्यम् । सदैव स्वभाग्यानुकूलोपलब्धया यत्किञ्चिदपि सम्पदैव सन्तोषिणा भाव्यम्
||५६||
निशदिन नर पामे जेहथी दुःख कोडी, तज तज धन चोरी कष्ठनी जेह ओरी ।
पर विभव हरंतो रोहिणी चोर रंगे,
इह अभयकुमारे ते ग्रह्यो बुद्धि संगे
178
॥६०॥
किञ्च-चौरा दिवानिशमनेकधा दुःखराशिमधिगच्छन्ति । अतः