________________
॥४॥
अथ जैनाचार्य - श्रीमद्विजयधनचन्द्रसूरीश्वर-गुरुगुणाष्टकम् - ( उपेन्द्रवज्रावृत्ते ) अनेकधर्माकुलविथसिन्धोः, सुरत्नवच्छासनमार्हतं सत् । प्रपद्य योऽभूत्किल विश्ववन्द्यो, नमामि तं श्रीधनचन्द्रसूरिम् ॥१॥ सदा मदाविष्टधियो द्विषोऽपि, सदागमैर्वर्मितविग्रहं यम् । विलोक्य बिभ्युर्विधुतात्मगर्दा, नमामि तं श्रीधनचन्द्रसूरिम् ॥२॥ सुखश्रवां कर्मवितानहन्त्रीं, यदीयवाचं सुनिपीय भव्याः । अमर्त्यलोकं कति संप्रयाता, नमामि तं श्रीधनचन्द्रसूरिम् ॥३॥ कुधर्ममार्गे पततां जनानां, शिवाय योऽदात्सुजिनोपदेशम् । कषायदोषोज्झितमार्ययेशं, नमामि तं श्रीधनचन्द्रसूरिम् यदीयसौजन्यगुणान्प्रभाते, मुदा सुगायन्ति बुधा हि नित्यम् । नितान्तशान्तं द्विजराजकान्तं नमामि तं श्रीधनचन्द्रसूरिम् ॥५॥ परोपकारार्थमलम्भविष्णुः, करालकर्मारिकृते च जिष्णुः । बभूव यो वै नितरां सहिष्णु - नमामि तं श्रीधनचन्द्रसूरिम् ॥६॥ दयामयः सत्कृतसभ्यवर्गः, समस्तभव्यार्चितपादपद्मः । ररक्ष यो जन्तुगणान्विपत्ते - र्नमामि तं श्रीधनचन्द्रसूरिम् यदीयनामस्मरणात्पुनीते, सकिल्बिषोऽपि द्रुतमत्र लोके । परत्र सौख्यं च लघु प्रयाति, नमामि तं श्रीधनचन्द्रसूरिम् ॥८॥ दिवामुखे योऽष्टकमेकवारं पठेन्नरः श्रीधनचन्द्रसूरेः । लभेत नूनं स निजात्मबोधं, ब्रवीति हंसो हि हितः समेषाम् ॥९॥ - मुनि-हंसविजयः
॥७॥
1. प्रवेशद्वार, आवास । 2. बृहस्पतिप्रिय । 3. समर्थ । 4. इन्द्रसम 5. पापसहित । 6. सर्वेषाम् ।
5