________________
टीकेयमन्तिमस्त्रग्धरापद्यस्य - पूर्णसुन्दरतरे भरतपुरे निवासिन ओसवंशीय-पारिखगोत्रीयश्रेष्ठिवर्या-श्रीऋषभदासस्य केसरीनाम्न्या स धर्मचारिण्याः कुक्षितः सुसमये रत्नराजीयं जन्म वैक्रमीयेऽब्दे गुणवसुगजेन्दुवत्सरे १८८३ समजायत।
तदनु लघुवयस्येव सकुटुम्बमातृपित्रोरनुज्ञामादाय यतिवर्यश्रीप्रमोदविजयबृहद्गुरुभ्रातृहेमविजयेन वेदाभ्राङ्कभूवत्सरे (१९०४) वैशाखशुक्लपञ्चम्यां भृगुवासरे महता समारोहेणोदयपुरे प्रदीक्ष्य श्रीरत्नविजयनाम्नाऽपप्रथत । पुनस्तत्रैव कालान्तरेण तद्धस्तेनैव गुरुदीक्षाप्यभूत् । तस्यामेव यतिदीक्षायां स्वगुरुश्रीप्रमोदसूरिणा श्रीसङ्घसम्मत्या चतुर्विंशत्यधिकैकोनविंशतिवत्सरे (१९२४) माधवशुभ्रपञ्चम्यां सोत्सवेन श्रीपूज्योपाधिना श्रीरत्नविजयोऽलङ्कृतः सन् श्रीमद्विजयराजेन्द्रसरिनाम्ना जगत्प्रख्यातिमाप!
ततो मरुधर-मेवाड़-मालवादिदेशेषु श्रीपूज्यपदवीं प्रकाशयन् क्रमेण जावरापुर्यामाजगाम । तत्र (धरणेन्द्रसूरिनाम्ना) प्राचीन-श्रीपूज्येन गच्छशुद्धिकारकनवनियमान् स्वीकारयित्वा श्रीसङ्घकृतभक्त्युत्सवेन पञ्चविंशत्यधिकैकोनविंशतिवर्षे (१९२५) आषाढकृष्णदशम्यां शनिवासरे श्रीपूज्यं समग्रपरिग्रहं त्यक्त्वा पञ्चसमितित्रिगुप्तियुक्तमहाव्रतधारी प्रसिद्धक्रियोद्धारकः सुगुरुर्जज्ञे।
तदनन्तरं देशदेशान्तरीयभूमण्डले विहृत्य षष्टिचतुर्मासी विधाय जिनशासनं समुन्नीय भव्यजीवांश्च समुद्धृत्य त्रिषष्टयधिकैकोन-विंशतिसंवत्सरे (१९६३) पौषसितसप्तम्यां मालवदेशस्थराजगढनगरे स्वर्गसुखं संजगृहे।
स श्रीगुरुवर्योऽखिलान् जीवान्मे च श्रेयो दिशतु, इति श्रीगुलाबविजयो मुनिः सकलश्रीसङ्घसमक्षे निगदति ।