SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली इह जगत्यां क्षमावतामिष्टानि सदा जायन्ते । क्षमाधरा नराः कदापि कुत्रापि न क्लिश्यन्ते । अतः, हे भव्याः ! यूयं क्षमाशालिनो भवत । यां विना कृतान्यपि जपतपोदानादिकानि विफलायन्ते । ये च क्षमां कुर्वते तेषामेव चारित्रमपिशोभते। किमधिकं वच्मि?आजन्माऽऽचरितमपि चारित्रमेकदाप्युत्पन्नक्रोधेन क्षीयते । उपशममन्तरा गृहिणामन्यत्किमपि विहितं व्रतादिकं नैव फलति । यां विना कां गतिमेते जीवाः प्राप्स्यन्तीति ज्ञानिन एव वक्तुं शक्नुवन्ति । अतो लोकैः क्षमागुणः सदैवाऽऽदरणीयः ||२३|| यतःक्षमाखड्गः करे यस्य, दुर्जनः किं करिष्यति ?] अतूणे पतितो वह्निः, स्वयमेवोपशाम्यति 11811 उपशम रसलीला जास चिते विराजी, किम नर भय केरी ऋद्धिमां तेह राजी ? । गजमुनिवर जेहा धन्य ते ज्ञान गेहा, तप करि कृश देहा शांति पीयूष मेहा ॥२४॥ येषां मनसि क्षमागुण उदयमुपयाति, ते धन्या नराः सांसारिके सुखे न कदाप्यनुरज्यन्ते । यथा गजसुकुमालो महामुनिर्ज्ञानगुणागारस्तपःपरिशुष्कगात्रो वर्षतुर्जलधाराभिर्लोक इव शान्तिमवाप ||२४|| 110
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy