________________
सूक्तमुक्तावली
इह संसारे इष्टमनिष्टं वा यत्प्रतिज्ञातं तत्प्राणाऽतिपातेऽपि रक्षणीयं सर्वैः। एवंभूतं स्वकृतप्रतिज्ञापालनपरं नरं महात्मानं सूर्योऽपि व्योम्नि स्थितो दिदृक्षते । कठिनतरप्रतिज्ञां पालयतां नृणां देवा अपि साहाय्यं तन्वन्ति । तथा रणे जले दहने कानने तेषामापतन्तीमापदं नियमतो देवा निवारयन्ति । सर्वत्रैव ते सुखामाप्नुवन्ति । लेशतोऽपि ते क्लेशभाजो नैव जायन्ते ।।२१।। पुरुष रयण मोटा जे गणीजे धराये, जिण जिम पडियज्यूं ते न छांडे पराये । गिरिश विष ज धर्यो ते न अद्यापि नाख्यो, दुरगति नर लेई विक्रमादित्य राख्यो
તરરા ये मनुजाः साध्यमसाध्यं वा प्रतिज्ञातं यावज्जीवमवन्ति ते जगति रत्नतया गण्यन्ते । यथा सागरमथनोद्भूतं गरलमनिष्टमपि महादेवः कण्ठे संस्थाप्याऽद्याऽपि तन्नैव जहाति । यथा वा विक्रमार्कः पर्वतनामानं दुर्दशं दरिद्रमपि नरं सुखिनं विधाय निजान्तिकमतिष्ठिपत् । एते सत्पुरुषा इव कृतप्रतिज्ञापालनपरा रत्नान्येव गीयन्ते । तेऽमी सर्वेषां सदैव प्रशस्या जायन्ते ||२२||
अथ ६-क्षमागुणविषयेउपशम हितकारी सर्वदा लोकमाहीं, उपशम धर प्राणी ए समो सौख्य नाहीं । तप जप सुर सेवा सर्व जे आदरे छे, उपशम विण जे ते वारि मंथा करे छे
॥२३॥
109