________________
सूक्तमुक्तावली
क्षयन्तीत्यादिविचारसारेण मनसि धैर्यं विदधती निजशीलं रक्षन्ती
कालमगमयत् ।
अथैकदा रावणः पाताललङ्कास्वामिनं वरुणं विजेतुं निजदूतमुखात् प्रह्लादनृपमेवमाख्यत् । तद्यथा-मया वरुणेन सह योद्धव्यमस्ति, अतः ससैन्येन त्वयाऽवश्यमत्राऽऽगन्तव्यम् । इति रावणादेशमाकर्ण्य रावणादेशकारी प्रह्लादः ससैन्यस्तत्र गमनाय समुद्युक्तवान् । तत्रावसरे पवनञ्जयेनोक्तम्- हे पितः ! एतदर्थं त्वया किं गम्यते ? | अहमेव तत्र गत्वा रावणवैरिणं वरुणं विजित्य सत्वरमत्रागमिष्यामि ।
ततः पित्राऽऽदिष्टः स सज्जितसैन्यो मातरं नमस्कृत्याऽञ्जनां तु क्रूरदृक्कोणेन किञ्चिद्वीक्षमाणः प्रतस्थे । तथा तयोक्तम् - हे नाथ ! मया किमपराद्धं येन त्वं मयि रुष्टोऽसि ? | सर्वे त्वयाऽऽलापिताः । मया सह कथं न ब्रूषे ? अहं निरपराधाऽस्मि । मयि प्रसीद, तव पथि कुशलं वर्तताम् । तथा कार्यसिद्धिं विधाय सत्वरमिहागच्छेरित्थं कल्याणं वचो ब्रुवाणां तामगणयन्नेव सोऽचलत् । ततोऽञ्जनापि दैवदोषं ददाना पतिविरहादतिदुःखिनी निजावासमागता ।
इतश्च प्रस्थितः पवनञ्जयोऽपि सन्ध्यासमये मानससरोवरोपरि सपरिवारस्तस्थौ । तत्रावसरे काञ्चिद्वियोगिनीमतिदुःखिनीं पुरःस्थितां, तन्तुजालमश्नन्तीं, शीतमपि दहनं मन्यमानां चन्द्रिकामपि तापकरीं पश्यन्तीं, करुणमत्युच्चै रुदतीं, विदूरे प्राणनाथं वीक्षमाणां चक्रवाकीं सोऽपश्यत् । तां तादृशीमालोक्य स मनसि व्यचिन्तयत् । अहो ! इयञ्चकोरी सकले दिने पतिसङ्गता तत्सुखमनुभवति, केवलं रात्रावेव पतिवियुक्ता यद्येवं दुःखम्भजते, तर्हि आजन्मपरित्यक्ता मत्पत्नी
98