________________
७६
श्री विजयपद्मसूरिविरचितः
पार्श्वदाप्तवरः परो न सुयशः पार्श्वस्य लोकोत्तरं । श्रीपार्श्वेऽचलधैर्यलब्धिरथ मे श्रीपार्श्व ? रक्षां कुरु || ३|| बाह्यं तुच्छमनित्यभावकलितं राज्यादिकं वैभवम्, त्यक्त्वादाय यदा त्वयेश ? परमा दीक्षाङ्गनाभिस्तदा । वृद्धाभिः चरणानुकूलर सिकाः वाचः प्रयुक्ता वराः, स्वाशक्तावनुमोदना प्रतिदिनं कार्येति ता बोधदाः || ४ || शुक्लार्धेन विनाश्य घातिगहनं ध्यानान्तरीयं क्षणं । संप्राप्यावरणप्रणाशसमये त्वं निश्वयाकूततः ॥ ज्ञानं सद्व्यवहारतोऽथ समये लब्ध्वा सयोग्यादिमे । अज्ञासीखिलार्थ सार्थ सकलोत्पत्त्यादिभावान्मुदा ॥५॥ वृत्तस्तमसराजसीश्च भविनां सदेशनायोगतः, दूरीकर्तुमुपायसार्थमुपदर्याध्वान मीष्टार्थम् । कृत्वा सात्विक मार्गरक्त भविकानन्तर्मुहूर्तेऽन्तिमे, शैलेशीकरणं विधाय विशदं स्वाभाविकानंददम् ॥ ६ ॥ मूला घातकशेष कर्म विरहान्मुक्तत्यङ्गना संगमं । लेभे सौख्यमनुत्तरं प्रकृतिजं यत्साद्यनन्तस्थितिम् ॥ मन्यन्ते परवादिनोऽथ परमानन्दात्मकं शब्दतः । पार्यन्तेऽपि न वक्तुमर्थ बहुलात् तद्विश्वदर्शी वरैः ॥७॥ स्वाधीनं प्रतिकारहीनमुपमातीतं सदा निर्भयम् । -सौख्यं तद्विपरीत भावकलितं सांसारिकं चञ्चलम् ॥