________________
श्री स्तोत्रचिंतामणिः
मच्चेतो विशदाननं ननु तथा त्वां तथ्यमोदावहं । मूर्योऽयं मुखरो जनोऽत्र भवतीक्षित्वाप्रमोदान्वितः॥१५॥ नाथायुक्तिगभाषिणं न जिनपोपेक्षध्वमेनं जडं ।, मत्त्वोत्तानधियो हि यूयमधिपा नने बुधा वत्सलाः ॥ आज्ञायां तव मेऽपि किं विमलसद्वृत्ते विकल्पो विभो । येनैवं गदतो न चापि विबुधान्तः स्थोत्तरं दीयते॥१६॥ सूनुः किं न करोत्यलीकमुख रोऽपीशालजालं पठन्। तातं विस्तृत बोधवर्य नितरां नन्दातिरेकाकुलम् । जल्पाकोऽनुचिताभिलापनिकरैः किं ते जनोऽयं तथा, तोषं वर्धयते नवेति करुणामाधाय संकथ्यताम् ॥१७॥ संसारान्तमुपागते त्वयि महाभागासितुं वीक्षिते । आसक्तिः क्षणमेकमप्य प्रशमे संपद्यते नो भवे ॥ किंत्रातर्करवाणि किंतु रिपवो मां संरुणद्ध्यान्तरा।, मोहद्वेषरति प्रहास्यमदन क्रोधप्रपञ्चादयः ॥ १८ ॥ स्वामिन् तान्विनिवारयान्तररिपून कारुण्यमाधाय मे। येनायामितवान्तिकेऽहममदोऽनन्तोल्लद्वीर्यवान् ॥ स्वाधीनोऽस्ति भवोऽपि धीर ? तव चायत्तं भवोत्तारणं । निस्तारे च विधीयतेऽत्र विफलः क्षेपः किमेवं स्थिते ॥१९॥ एवं चानवमानप्रौढ गुण संभारेश पापभो । सोऽयं ते स्तवने वदिष्यति कियन्मन्दावबोधो नरः॥