________________
श्री स्तोत्र चिंतामणिः
त्वद्ध्यानं दुरितापहं शिवलता कन्दं तदाभासते, चेतश्वेतयतेऽनिशं मम मतं तच्चारु संपद्यताम् ॥ ५॥ भक्ति भावभराद्विधाय विशदां भ्राजिष्णुनाकीश्वराः । dsकामस्य निजर्द्धिमोहविकलाः धन्याः पवित्राशयाः।। मत्वा तं समयं महोदयमयं तां कामयांचक्रिरे । तत्सत्यं हि सुधां विहाय जलधेनीरं क इच्छेन्नरः ॥ ६ ॥ सत्यानन्दजगद्गुरो ? जिनपते ? गीर्वाणपूज्यक्रम ? | विज्ञाताखिलभावसार ? खदमिन् तुभ्यं नमस्ते नमः ॥ साफल्यं समभूत्तनोरिह ममाद्येत्थं तवोपास्तितः, शस्यं तत्र विनश्वरं च सकलं वित्तादिसार्थं तथा ॥ ७ ॥ संप्राप्या वसरं निजात्महितगाः संविग्नभव्या जनाः, धर्माराधनसार मानुषभवं लक्ष्मीं तथा चञ्चलाम् । मत्वार्चाविनियोगहृष्ट करणाः त्वां पूजयित्वादरातू, प्रीते रङ्गतरङ्ग सङ्गकलिता स्तन्वन्ति सद्भावनाम् ||८|| संसाराम्बुमिन तारक ? विभो ? किं विस्मृतस्तेजनः, । सद्भावान्वित किङ्करस्य विहितो लोकत्रयानन्दन ? ॥ येन ख्यातदयालुनोवृतिविधावर्हन्विलम्बस्त्वया, । युक्तं तन्न भवादृशां शरणमेवाप्ते विधातुं जने ॥ ९॥ मां यूयं न च तारयिष्यथ तदाऽन्ये तारका संति के, । लोभान्धा अपरेऽङ्गनारतरता लब्धाः पराधीनताम् ॥
७१