________________
६६
-
श्री विजयपद्मसूरिविरचितः इत्युक्त्वा प्रणतिं विधाय निजकं स्थानं जगामामरी । आचाम्लानि चकार हृष्टहृदयो सरिः क्रमेणागदोऽभूदृत्तीः प्रणिनाय वर्यविमलाङ्गानां नवानां ततः। ताअस्मिन्समयेऽङ्गिबोधकुशला दैवीयसांनिध्यजाः ॥४१॥ देहेसाऽभयदेवमूरिसुगुरोः पादुर्वभूवैकदा । नागेन्द्रोऽपजहार तं प्रबहुमानीदं बभाषे पुनः ॥ सेढीभूस्थित पाचबिंबममलं प्रादुष्कुरु त्वं मुदा । यचिंतामणि रत्नतोऽप्यधिकसत्भौढप्रभावान्वितम् ॥४२॥ तस्य स्नात्रजलेन कुष्ठविलयो देहः समर्थस्तथा । चिह्न तत्र वदामि धेनुरमलैका च स्वभावात्पयोधारा यत्र विधास्यति प्रमुदिता बिंबस्थलं तद्वरं । श्रृत्वेदं धरणेन्द्रभक्तिवचनं हृष्टा अभूत्सूरयः ॥ ४३॥ श्रीसंघ सकलं गुरुश्च कथयामासोपश्रृत्याथ सः। प्रोल्लासाचजगाद तत्र गमनेच्छा नोऽधुना वर्तते ॥ सानंदाः समुपाजगाम गुरवः संघान्विता स्तत्स्थले । यत्सकिंशुक वृक्षसंनिधिगतं गोपालबाला जगुः ॥४४॥
( अनुष्टुब्बृत्तम् ) जय त्रिभुवनस्तोत्रं, प्राणैषीत्सूरिशेखरः॥ त्रय स्त्रिंशत्तमं काव्यं, पठन्पाच ददर्श च ॥४५॥ दृष्ट्वा जहर्षनीरोगोऽ-भूत्संघोबिंबवर्णनं ॥ श्रृत्वासंवासयाश्चक्रे, तत्र स्तंभनकं पुरम् ॥ ४६॥