________________
श्री विजयपद्मसूरिविरचित तत्पश्चाद्गतिना प्रबुद्धमखिलं तेन प्रशांतोऽभवन् । मीमांसामकरोदितीह किमिदं चित्रं गतश्चेतसि ॥ वर्याहत्मतिमां ददर्श विदधानस्तत्स्थलं निर्मलं, कोऽर्थोऽयं मम हर्षदोऽस्ति नितरांपप्रच्छ विज्ञानिति ॥३०॥ श्रीमत्स्तम्भनतीर्थपार्श्व इति निश्चिक्यौ तदुक्ते रयमन्यत्र प्रससार वर्णनमिदं तस्य प्रयत्नाद् द्रुतम् ॥ जातो मेऽभ्युदयोऽद्य जन्म सफलं संपन्नमालोकनादस्याग्रे त्रिदशद्रुमोऽपि लघुतां धत्तेऽत्र नो संशयः ॥३१॥ निःशेषाण्यपि कामितानि नितरां पूर्णानि तूर्ण द्विधा। दौर्भाग्याधिगदादयोऽप्यशुभदा भावा विनष्टा मम ॥
प्रोदामाद्भुतसत्पभावविसरं वक्तुं प्रभोरस्य नो, . शक्ति किगुरोरपीह न भवेद्दध्याविदं चेतसि ॥३२॥
तस्याश्चर्यविधायकस्य जगतिश्रीपार्श्वनाथपभोराचार्याभयदेवसूरिरिहस : प्रादुष्कृतेः कारकः ॥ आचार्येश जिनेश्वरोऽप्रवरसद्धयाख्यानकर्ता श्रुतः, तच्छिष्यत्वमिहोल्लिलेखरचिताङ्गीयासु टीकासुयः॥३३॥
( अनुष्टुबबृत्तम् ) इत्यन्ये कथयन्तीति, बिम्ब प्रादुश्चकार सः ॥ कथमित्युत्तरं दातु-मथ वक्ष्ये मतं परम् ॥ ३४ ॥
( शार्दूलविक्रीडितवृत्तम् ) सरिः सोऽनशनं चकांक्ष समये पीडात्ययो मे यथेत्याकूतात् स्वमनोरथश्व प्रकटीचक्रे दिनान्तेपुरः,