________________
श्रीस्तोत्रचिंतामणिः
सान्यग्रन्थपरामर्शः, पूर्वोक्तार्थनिवेदकः । अधिकारो द्वितीयोऽयं, वर्ण्यते विधिया मया ॥१३॥ चक्रे हास्यमृषेः कुतूहलरतास्ते यादवा मद्यपाः । क्रोधाच्छापमदात् स येन सपदि श्रीद्वारिकाज्वालिता । प्राकारात्ययतश्च वार्धिकजलैस्तन्मदिरं मज्जितम् । श्रीविम्वं तदवस्थमब्धिनिलयं जज्ञे तदा स्वास्थ्यदम् ॥१४॥ श्रेष्ठी सागरदत्त इत्यभिधया ख्यातः स पोतवजं, लात्वाम्भोधिपथा जगाम निभृतं पण्यैरभीष्टस्थलं ॥ देवः कोऽप्यचलं चकार सुरुचिस्तं मध्यभागेऽम्बुधे, दृष्ट्वैतां भयदां स्थितिं स विदधे तत्कारणान्वेषणम् ॥ १५ ॥ अत्रार्हत्पतिबिम्बमेवममरः स्पष्टं बभाषे तदा, तच्छ्रुत्वाऽमरवाग्भवेन्नवितथेत्यालोच्य हर्षे दधौ । तन्निष्कास्य सरित्पतेरनुपमं सप्तामसूत्रैर्बहिभक्तः पोतवणिमुमोच विनयात्कूलेऽथ वामाङ्गजं ॥ १६ ॥ विम्बं स्वप्रभयाद्भुतं गतमलं श्रेष्ठी निरीक्ष्यामिता - नन्दस्तत्र सिषेच भद्रविटपिन्यर्चाम्बुधारा विधेः ॥ नीत्वा कान्तिपुरी स्वधामप्रवरं संस्थाप्य हर्यासने । प्रोल्लासाद् द्विसहस्रवर्षसमयं मेहुर्मुदेभ्यादयः ॥ १७ ॥ प्रापुस्तत्फलमुन्नतं यदुत पूर्व वर्यभावावलीरासाद्याशुभकर्मतीवरसविध्वंसं द्रुतं चक्रिरे ॥
६१.