SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ श्री विजयपद्मसूरिविरचितः सोऽयं पश्चिमलोकपाल इतिसन्नाम्ना श्रुते विश्रुतः। श्लाघ्यः किं न वरे ण्यविज्ञगुणिभियस्यास्पदेऽयं प्रभुः॥ स श्रीदाशरथिः प्रमोदकलितो वयं चकाराचन, । मासान् सप्त दिनान् नवैव पुरुषादेयाहतः श्रीविभोः॥६॥ अब्दाशीति सहस्रवर्यसमयं सेवां निवासे स्वके। चक्रे श्रीधरणेन्द्र आप्तप्रणयी पीतामृतानुष्ठितिः।। चित्तोल्लासयुतोऽथ भूरिसमयं शक्रो विधायाहणां । मेने स्वर्गजशर्मतुच्छतृणवत् पर्यन्तखेदावहम् ॥ ७ ॥ श्रीमन्नेमिविभुभवत्वविकलानन्दाय भव्यात्मनां । यस्यास्याम्बुजतो निशम्य विशदा पार्श्वप्रभावस्थितिम् ॥ कृष्णः क्षायिकदर्शनोऽथ निलये मूर्ति निधायोत्तमे । दध्यौ चित्रकरं स्वरूपममलं कृत्वा सपया विभोः ॥८॥ ( अनुष्टुवृत्तम् ) चतुर्विंशतिनामादौ, प्रबन्धे नाम वीक्ष्यते ॥ कृष्ण इत्यभिधानस्य, स्थाने नेमिप्रभोः पितुः ॥९॥ इत्थं स्वर्गिविमानादौ, प्रभुस्थित्यादिदर्शकः ॥ पाप सम्पूर्णतामायोऽधिकारो हर्षदायकः ॥ १० ॥ श्रेष्ठी सागरदत्तेन, त्रिदशाधिष्ठितोत्तमा। मूर्तिः श्रीपार्श्वनाथस्य, कथं प्राप्तातिशायिनी ॥११॥ तस्य प्रौढप्रतापेन, श्रीनागार्जुनयोगिनः। कथं काञ्चनसिद्धिश्व प्रकारान्तरगर्भिता ॥१२॥
SR No.006174
Book TitleStotra Chintamanistatha Prakrit Stotra Prakash
Original Sutra AuthorN/A
AuthorVijaypadmasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages344
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy