SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ श्री स्तोत्रचिंतामणिः अर्हन् पार्श्वनाथोऽपि, नवहस्तोच्छ्रयोऽभवन् ॥ नव नेमिभवाः प्रोक्ताः, श्रीवीरस्य गणा नव ॥११३॥ ५५ > पारिहारिकसाधूनां गणोऽपि नत्र संङ्ख्यकः || न चैकान्तोत्र लेशेन विविधा बोधहेतवः ॥ ११४ ॥ दुर्लभा धर्मसामग्री, दुर्लभो मानवो भवः ॥ दुर्लभः समयोऽप्यस्य, मन्त्रोऽयमपि दुर्लभः ॥ ११५ ॥ अद्य मे सफलं जन्म, पावना रसना कृता ॥ समयः सार्थको जातः, सिद्धचक्रस्य साधनात् ॥ ११६॥ सुलभा भोगसामग्री, नियमाद्भवसाधिका ॥ न तथाराधना चेयं, विश्वविघ्नविदारिणी ॥ ११७॥ धन्यानां पूर्ण पुण्यानां, साविकोत्साहशालिनां ॥ जायते निर्मला भक्तिः, सिद्धचक्रस्य साधने ॥११८॥ मूल्येनैवाप्यते सर्वे, अध्यक्षं यन्निरीक्ष्यते ॥ साधना सिद्धचक्रस्या - मूल्या निर्वाणदायिनी ॥ ११९॥ त्रितत्त्वाराधनाऽप्यत्र, सद्व्रताराधनापि च ॥ दानाद्याराधना शुद्धा, मोक्षमार्गाधिसेवना ॥ १२० ॥ निर्जरासंवरौ तत्त्वे द्वे निःश्रेयसकारके || तनिबन्धनयोगेषु, सिद्धचक्रस्य मुख्यता ॥ १२१ ॥ शाश्वतं शर्ममोक्षस्य, साधनाऽप्यस्य शाश्वती ॥ अष्टाह्निका द्वयं चापि, शाश्वतं नाकिनामपि ॥ १२२॥
SR No.006174
Book TitleStotra Chintamanistatha Prakrit Stotra Prakash
Original Sutra AuthorN/A
AuthorVijaypadmasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages344
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy