SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ श्री विजयपद्मसूरिविरचित : % 3D - अन्धत्वं जुंगितत्वं च, दौर्भाग्यं विकलांगता ॥ काणत्वं वामनत्वं च, न स्यादस्य प्रभावतः ॥ १०३॥ वन्ध्यत्वं विषकन्यात्वं, वैधव्यं दुष्टरंडता ॥ मृतवत्सखदोषोऽपि, न स्यादस्य प्रभावतः ॥१०४ ॥ प्रेष्यत्वं पिंगलत्वं च, मूलतोऽपि प्रणश्यति ॥ भूतायुपद्रवाभावो, जायते नात्र संशयः ॥ १०५॥ मुनिसुव्रतनाथस्य, तीर्थे श्रीपालभूपतिः ॥ जातस्तेनेदमाराद्धं, मदनादियुतेन च ॥ १०६॥ संक्षेपाराधनं पूर्व, ततो विस्तरतो कृतम् ॥ भक्तिः शक्त्यनुसारेण, जिनाज्ञाऽप्येवमास्थिता ॥१०७॥ नववर्षशते पूर्णे, स्वायुषस्तस्य भूपतेः ॥ तद्धयानानवमे कल्पे, सुरः जातः सुरमभः ॥ १०८॥ एकविंशति वाायु स्तत्र भुक्त्वाऽत्र मानवः ॥ पुनस्तत्रैव गत्यैवं, सेत्स्यति नवमे भवे ॥ १०९ ॥ इत्यमेव क्रमो ज्ञेयः, जननीमदनादिषु ॥ न भेदो नवसु ज्ञेयः, नवसंख्याऽप्यनुत्तरा ॥११॥ गुणितोऽङ्केन केनापि, नवाङ्को नैव भिद्यते । गुण्यसंख्यासमानं यद् , गुणाकाराङ्कमेलनम् ॥१११॥ वीरतीर्थे नवात्मानः, तीर्थकृन्नामबन्धकाः ॥ गुप्तयो नव शीलस्य, तत्त्वानि निधयो नव ॥ ११२ ॥
SR No.006174
Book TitleStotra Chintamanistatha Prakrit Stotra Prakash
Original Sutra AuthorN/A
AuthorVijaypadmasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages344
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy