SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ श्री स्तोत्रचिंतामणिः सिद्धचक्रसमं नान्य-दुत्तमं जगतीतले ॥ रहस्यं जैनधर्मस्य पूर्णमत्र प्रतिष्ठितम् ॥ ९३ ॥ ये सिद्धा ये च सेत्स्यन्ति, सिद्धयन्त्यन्यत्र येऽपि च ॥ ते सर्वे सिद्धचक्रस्य, साधनानैव संशयः ॥ ९४ ॥ एकस्यापि पदस्यात्रा-नेके ध्यानात् शिवं गताः ॥ भवेन्नवपदध्यानान्मुक्तिः तत्र किमद्भुतम् ॥ १५ ॥ मन्त्रेषु परमो मन्त्रः, तत्त्वेषु तत्त्वमुत्तमम् ।। अर्थेषु परमार्थोऽयं, पदेषु परमं पदम् ॥ ९६ ॥ तामसी राजसी हेया, सात्विकी भक्तिरुत्तमा ॥ विधेयाऽवंचकत्वेन, सैव सर्वार्थसिद्धिदा ॥ ९७ ॥ क्षान्तो दान्तो निरारंभः, निनिदानो विधिप्रियः॥ आराधकोऽस्य विज्ञेयः, विपरीतो विराधकः ॥९८॥ आराध्यं परया भक्त्या, शान्त्या शीलादियुक्तया ॥ हन्तुं प्रभवति नैवा-राधकं शत्रुरत्र च ॥ ९९ ॥ दिनानि नव प्रत्येकं, चैत्र श्विनमासयोः ॥ एकाशीतिदिनान्येवं, सार्धवर्षचतुष्टये ॥ १०० ॥ विधिनोद्यापन कार्य, तपसोऽन्ते प्रमोदतः । चरित्रात्माकृतात्सोऽयं, विज्ञेयो रासकादपि॥१०१॥ स्वाधीनाः सम्पदोऽनेन, ज्वरादिरोगसंक्षयः॥ पूर्वोत्पन्ना विनश्यन्ति, दास्यत्वादि भवन्ति न ॥१०२॥
SR No.006174
Book TitleStotra Chintamanistatha Prakrit Stotra Prakash
Original Sutra AuthorN/A
AuthorVijaypadmasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages344
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy