SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ५६ श्री विजयपद्मसूरिविरचितः तस्मिन् काले सुराः सर्वे, द्वीपे नन्दीश्वराभिधे ॥ विधायाष्टादिकानन्दं लभन्ते कर्मलाघवम् ।। १२३ ।। मिथ्यात्वाविरतियोगाः, कषाया इति हेतवः ॥ संसारस्य निरुद्धयन्ते, सिद्धचक्रस्य साधनात् ॥ १२४॥ सम्यग्दर्शनसंशुद्धिः, संहारोऽविरतेरपि ॥ उपशान्तिः कषायाणां, प्रवृत्तिः शुभवर्त्मनि ॥ १२५॥ नवानां कर्मणां रोधः, संचितानां च निर्जरा ॥ क्रमादात्मस्वरूपं च, निर्मलं स्फटिकाश्मवत् ।। १२६॥ शुक्लध्यानप्रतापेन, घाति कर्मचतुष्टयम् ॥ दग्ध्वाऽऽनुवंतिकैवल्यं, वर्णः श्वेतोऽर्हतां ततः ॥ १२७॥ श्रेष्ठध्यानाग्निा शीघ्रं, कर्मकाष्ठ विदाहकाः ॥ सिद्धा रक्तोऽनलो वर्णो, रक्तः सिद्धीशितुर्मतः ॥ १२८॥ विषापहं विनीतं च, मंगलं सद्रसायणं ॥ प्रदक्षिणावर्त्तमेव, मदाह्यानिंद्यकं गुरु ॥ १२९ ॥ कंचनाष्टगुणा एते; घटते सूरिषु क्रमात् ॥ यथा स्वर्ण विषं हन्ति, घ्नन्तिमोहविषं तथा ॥ १३० ॥ स्वर्ण विनयसंपण्णं, विनीताः सूरयस्तथा ॥ गीयते मंगलं स्वर्ण, सूरयो मंगलात्मकाः || १३१ ॥ तीव्ररोगापहं स्वर्ण, तत उक्तं रसायणं ॥ भावरोगांश्च प्रघ्नन्ति, सूरयस्तेन संनिभाः ॥ १३२ ॥
SR No.006174
Book TitleStotra Chintamanistatha Prakrit Stotra Prakash
Original Sutra AuthorN/A
AuthorVijaypadmasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages344
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy