SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ श्री स्तोत्रचिंतामणिः रसपाको विना नानिं, न घटोऽपि मृदं विना ॥ न पटोऽपि विना तन्तून् , नाघनाशस्तपो विना ॥७३॥ क्षारो वस्त्रस्य देहस्य, जलं स्वर्णस्य पावकः ॥ नयनस्याञ्जनं हेतु-नैमल्ये तप आत्मनः ॥ ७४ ॥ जिनेन्द्रैरपि यत्तप्तं, तद्भवे मुक्तिगामिभिः ॥ अज्ञातभवसंख्यान-युष्माभिस्तु विशेषतः ॥ ७५ ॥ अत एवास्य प्राधान्यं, मुक्त्यङ्गेषु प्रवेदितम् ॥ तवसा संजमेणंति, भगवत्यादिसंमतिः ॥ ७६ ॥ भेदा द्वादश पञ्चाशत् , संक्षेपाच्च विशेषतः ॥ विधेयं तपसो ध्यानमागमादि विचारतः ॥ ७७॥ ज्ञानं प्रकाशकं प्रोक्तं, शोधकं तप इत्यपि । गुप्तिकृच्चरणं ज्ञेयं, त्रियोगात्परमं पदम् ॥ ७८ ॥ स्वरूपं सिद्धचक्रस्य, एवं किंचिद् विवर्णितम् ॥ विधिपूर्वफलं तस्मा-द्विधिरादौ फलं ततः ॥ ७९ ॥ चतुर्घटीशेषरात्रा-वुत्थाय स्वरमांद्यतः ॥ . प्रतिक्रान्ति वा विधाय, कायोत्सर्ग यथापदम् ॥८॥ आसूर्योदयतः कार्य प्रतिलेखनमित्यथ ॥ देववन्दनमाधाय, यन्त्रपूजाऽप्यनन्तरम् ॥ ८१॥ नवचैत्यवन्दनानि, तथैव गुरुवन्दनम् ॥ व्याख्यानश्रवणं चैव, प्रत्याख्यानविधिस्ततः ॥८२॥
SR No.006174
Book TitleStotra Chintamanistatha Prakrit Stotra Prakash
Original Sutra AuthorN/A
AuthorVijaypadmasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages344
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy