________________
५०
श्री विजयपत्रसूरिविरचित मैत्र्यादिभावना अष्टौ, मातरो यस्य साधनम् ॥ आगमादिविचारेण, ध्येयं चारित्रमन्वहम् ॥ ६३ ॥ तुष्टिर्मलं श्रुतं स्कन्धः, दमाः शाखाः प्रवालकाः॥ शीलं चाभयपर्णानि, पुष्पं स्वर्गसुखं तथा ॥ ६४ ॥ फलं मुक्तिसुखं यस्य, कल्पवृक्षनिभं तपः ॥ निदानातीतबोधेन, वर्धनीयं क्षमाम्भसा ॥ ६५ ॥ शीलवृक्षोत्रतौ यस्य, साधनामेघसंनिभा ॥ पिधानं तृष्णावदने, यानं स्वर्गापवर्गयोः ॥६६॥ अग्निर्विघ्नलताध्वंसे, सद्भावाम्बुजभास्करं ॥ इन्द्रियाश्वरज्जुनिभं, लब्धिसिद्विविधायकम् ॥ ६७ ॥ निराहारपदास्वाद, स्थैर्यभावसहायदं ॥
अहिंसासाधनं वय, सद्वैराग्योन्नतिपदम् ॥ ६८ ।। साध्यते वासवादित्वं, येनदिरप्यनगला ॥ विहाय विकृतौ गृद्धि, कुरु बाहुबलीव तत् ॥ ६९ ॥ जलेन कृतमप्यच्छं वासः स्यान्मलिनं पुनः ॥ तपसा निर्मलो जातो, न देहो मलिनो भवेत् ॥ ७ ॥ सर्षपाक्षतदध्यादौ, परमं मंगलं तपः॥ स्निग्धान्यपि हि कर्माणि, दह्यन्ते येन लीलया ॥७१॥ तपसेत्यादि नियुक्ती, प्रोक्तमावश्यके खलु ॥ श्रुतकेवलिना श्रीम-स्वामिना भद्रबाहुना ॥ ७२ ॥