SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ ४७ - श्रीस्तोत्रचिंतामणिः . अन्नादीनां फलं स्वास्थ्य, तत्त्वत्र क्षणिकं मतम् ।। तेषां सिद्धात्मनां शुद्धा, शाश्वती स्वस्थता मता ॥३३॥ कर्माभावान सिद्धानां, अन्नादिग्रहणं मतम् ॥ किं लोहाकर्षणं क्यापि, लोहचुम्बकमन्तरा ॥ ३४ ॥ भोगिनोऽपीतमोगा ये, अवर्णा अपि साक्षराः ॥ ये(ते)षां ध्यानानुभावेन, भेदभावो विनश्यति ॥३५॥ रक्तवर्णविचारेणासंप्रज्ञातसमाधिना ॥ सिद्धाभिधं पदं ध्येयमागमादि विचारतः ॥ ३६॥ पत्रिंशद्गुणसंयुक्ताः पञ्चातिशयशोभिताः । पीतवर्णा यथास्वर्ग, स्मारणादिविधायकाः ॥ ३७॥ गच्छाधीशाः प्रदीपाभाः, पूज्या धर्मधुरन्धराः ॥ निधयो लब्धिसिद्धीनां, निःस्पृहा भवचारके ॥ ३८॥ जातिकुलादिभिः श्रेष्टाः, भवकूपस्थितांगिनाम् ॥ वितत्य देशनारज्जूः, सम्यगुद्धारकारकाः ॥ ३९ ॥ शिष्येभ्यो वाचनादाने, अर्थतश्च परायणाः ॥ प्रस्थानाराधकाः मूरि-सन्मन्त्राराधनोद्यताः ॥ ४० ॥ कल्पादावनुयोगे च, दशवकालिके तथा ॥ संक्षेपात्कथिता येषां, पञ्चविंशति सद्गुणाः ॥४१॥ यानकल्प भवाब्धौ ते, वैद्यवद्धितकारकाः। एवं मूरिपदं ध्येयं, आगमादिविचारतः ॥ ४२ ॥
SR No.006174
Book TitleStotra Chintamanistatha Prakrit Stotra Prakash
Original Sutra AuthorN/A
AuthorVijaypadmasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages344
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy