SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ ४८ - श्री विजयपद्मसूरिविरचितः उपसमीपमागत्य, येभ्यः शास्त्रमधीयते ॥ गम्यते स्मयते येभ्यः, द्वादशांगोपदेशकाः ॥ ४३ ॥ येषां पार्श्व श्रुतस्यायो, ऽध्ययनाध्यापनोधताः ॥ विबुधास्ते निरुक्तार्था-दुपाध्यायाश्च वाचकाः ॥४४॥ निर्मलध्यानकर्तारः, प्राप्तान्तेवासिपाठकाः ॥ उपायका उपायानां, चिन्तकाः स्वान्यभद्रयोः ॥४५॥ मूत्रार्थोभयवेत्तारः, संयमादिषु तत्पराः॥ वाचनादायकाः मूत्रात, शिष्येभ्यो गुणसंभवात् ॥४६॥ मूत्रार्थस्थिरताऽन्योप-कारो मोहजयस्तथा ॥ आयत्यप्रतिबध्धश्च, ऋणमोक्षो गुणा इति ॥ ४७ ॥ स्वरादिशुद्धसूत्रार्थाः, सदा योगोपयोगिनः॥ गच्छस्योपग्रहे रक्ताः, पञ्चविंशति सद्गुणाः ॥४८॥ मोहाहिविषवेगानां, महा गारुडिकोपमाः ॥ ध्येयं तुर्यपदं नित्यमागमादिविचारतः ॥४९॥ संयमाराधनोयुक्ताः, द्विधा शिक्षापरायणाः ॥ पदस्थपूजका मान्याः, निर्ग्रन्थाः समत न्विताः ॥५०॥ शमिनो वर्णतो श्यामाः, निरारंभा गतस्पृहाः ।। शान्ता दान्ताश्च सद्भावाः, सप्तविंशति सद्गुणाः ॥५१॥ गुप्ता भ्रमरसंकाशा, नवकल्पविहारिणः । मुनयोऽपि सदा ध्येया, आगमादि विचारतः ॥५२॥
SR No.006174
Book TitleStotra Chintamanistatha Prakrit Stotra Prakash
Original Sutra AuthorN/A
AuthorVijaypadmasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages344
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy