SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ ४६ श्री विजयपद्मसूरिविरचित : लभन्ते ध्येयरूपत्वं मरुदेवेव ध्यायकाः ॥ अर्हत्पदमिति ध्येयमागमादिविचारतः || २३ || शुक्लध्यानान्त्यभेदाभ्यां योगरोधं विधाय ये ॥ अस्पृशद्गतिना सिद्धाः, तेभ्यो नित्यं नमो नमः ॥२४॥ अष्टकर्मवियोगेन, गुणाष्टक विराजिताः ॥ अनित्थंस्थस्वरूपाप्ताः, स्वतन्त्रानन्दसंगताः ॥ २५ ॥ 'त्रिभागोनावगाहस्थाः, सिद्धशिला विराजिताः ॥ एरंडादिकदृष्टान्तात समयेनोर्ध्वगामिनः ॥ २६ ॥ 5 यत्सुखं वासवादीनां ततोऽनन्तगुणं सुखं ॥ अव्ययपदप्राप्तानां, सिद्धानां शाश्वतं मतम् ॥ २७ ॥ " कदलीस्तम्भसंकाश. सुखं सांसारिकं समं ॥ अप्येतद् दुःखसंभिन्नं, तेषां लेशोऽपि तस्य न ॥ २८ ॥ ज्ञेयमप्यत्र नो वक्तुं शक्यं केवलिनाऽपि च ॥ उपमाभावतो म्लेच्छः, यथा पुरसुखं तथा ।। २९ ॥ आत्मारामरताः शुद्धा, स्थिता ये दीपदीप्तिवत् ॥ साद्यनन्तविभंगस्थाः, पुनरावृत्तिवर्जिताः ॥ ३० ॥ कृतार्थाः सच्चिदानंदा, निष्कलात्ममहोदयाः ॥ रूपारूपस्वभावस्थाः निर्बीजाः पारमार्थिकाः ॥३१ ॥ अनङ्गस्थितिमन्तो ये, अनङ्गनाशका अपि ॥ पूर्णता पूरितात्मानः, स्थैर्यसंयमशालिनः ॥ ३२ ॥ A
SR No.006174
Book TitleStotra Chintamanistatha Prakrit Stotra Prakash
Original Sutra AuthorN/A
AuthorVijaypadmasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages344
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy