SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ श्री विजयपद्मसूरिविरचितः अर्हन्तोऽपुनरावृत्ताः, मूरयो वाचका अपि । मुनयो दर्शनज्ञाने, चारित्रं निर्मलं तपः ॥३॥ सिद्धचक्रमिति ज्ञेयं, ध्येयं नवपदात्मकम् ॥ आलम्बनं परं प्रोक्तं, मनोनिग्रहसाधनम् ॥ ४ ॥ भावप्रतिष्ठितो धर्म, उपदिष्टो जिनेश्वरैः ॥ न जायते शुभो भावः, मनोनिग्रहमन्तरा ॥ ५॥ निर्ममत्वं भवेद् भावात् , शुभात्साम्यं ततोऽपि च ॥ रागादेविजयः साम्यात् , चेतःशुद्धिः ततो भवेत् ॥६॥ तयेन्द्रियजयस्तेन, कषायाणां जयो भवेत् ॥ तेनैव भवनाशोऽतः, भावप्राधान्यमिष्यते ॥ ७॥ एतदेवाभिसंधाया-हंदादीनां विचारणा ॥ विधिना गुणिभिः कार्या, सात्त्विकोल्लाससंगतैः॥८॥ उपाय॑ तीर्थकुनाम, विंशतिस्थानसाधनात् ॥ स्वर्ग वा नरकं गत्वा, बद्धायुरनुसारतः ॥ ९ ॥ पुण्यसंभारसंयुक्तं, ज्ञानत्रयसमन्वितम् ॥ मानुष्यं येन संप्राप्तं, पूर्वायुः क्षयतः ततः ॥ १० ॥ यस्य जन्मनि संजातः, प्रकाशो नरकेष्वपि ॥ आधे सूर्यप्रकाशाभः, किंचिदनस्ततः परे ।। ११ ॥ तृतीये चंद्रसंकाशः, किंचिदूनश्चतुर्थके ॥ ग्रहाभः पंचमे श्वभ्रे, षष्ठे नक्षत्रसंनिभः ॥ १२ ॥
SR No.006174
Book TitleStotra Chintamanistatha Prakrit Stotra Prakash
Original Sutra AuthorN/A
AuthorVijaypadmasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages344
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy