________________
श्री स्तोत्रचिंतामणिः
ते नागार्जुनपादलिप्तमुनिपश्रीबप्पभट्टादयः, । संप्रापुर्विशदस्वभावतपसः सलब्धिसिद्धीर्वराः ॥ ज्ञात्वैतद्रसगृद्धिमुन्नतिकरं त्यक्त्वा विधेयं तपो, ।। देहः शोक्ष्यत एव रोगततिना चेत्तेन नो शुष्यते ॥ ३५ ॥ सद्भाग्याधिगमस्य निर्मलतमश्रीसिद्धचक्रप्रभोः । पूज्यश्रीगुरुनेमिसूरिचरणाम्भोजप्रसादादिदम् ॥ पूर्वोक्तं स्वबलाधरीकृतमहारत्नप्रभावत्रजम् । ज्ञात्वा ये बहुमानभक्तिनिरतास्तेभ्यो नमोऽनारतम् ॥३६॥ वर्षे वाणनिधाननंद शशिसमाने बरे कार्त्तिके, । श्रीमद्गौतमकेवलाप्तिदिवसे श्री मिसूरिक्रमा - ॥ म्भोजे षटपदपद्मसूरिरमलश्रीसिद्धचक्रप्रभोः ! चक्रे श्रीमति वर्यराजनगरे सत्तत्त्वषट्त्रिंशिकाम् ॥३७॥
9
L/
॥ समाप्ता विजयपद्मसूरिप्रणीता श्रसिद्धनकषत्रिंशिका |
४३
॥ श्रीसिद्धचक्रशतकम् ॥
॥ अनुष्टुव वृत्तम् ॥
श्रीसेरीसकतीर्थेशं, नेमिमरिं गुरुं तथा ॥ वंदिता सिद्धचक्रस्य, शतकं विदधाम्यहम् ॥ १ ॥ सच्चिदानन्दसाम्राज्यं प्राप्यते यत्मभावतः || सिद्धचक्रं तदुल्लासाद्, भव्याः सेवन्तु सत्त्वरम् ॥ २ ॥