SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ श्री विजयपद्मसूरिविरचितः नामाद्यैरधिकैश्चतुभिरपि यन्नोआगमान्योक्तिभि, । ध्येयं स्वज्वलनात्महाटकमलव्युच्छेदकं श्रीप्रदम् ॥ कांक्षासंवरनिनिदानपरमज्ञानोत्तमार्थापकं, । चक्रयाखण्डलवर्यदेवपदवीसिद्धिप्रदानक्षमम् ॥३०॥ दुष्कर्माणि निकाचितान्यपि लयं प्रायोति यत्तो द्रुतं । सामग्रीसहितादपायसमवायोज्जासनं मंगलम् ।। विश्वाश्चर्यकरप्रभावललितं स्वर्गापवर्गौ यतः, । प्रद्युम्नास्यपिधानमिन्द्रियदमं भद्राम्बुजाहर्मणिम् ॥ ३१ ॥ शास्त्रज्ञानप्रकांडनाककुसुमब्रह्मप्रवालाश्चितं.। सत्कारुण्यदलेन्द्रियोदमनशाखंतोषमूलोद्गतम् ॥ श्रेयो धामफलं प्रभावजनतामेयप्रमोदावहं, । तन्मन्दारनिभं तपोऽतिशयभृत्पुण्योदयादाप्यते ॥३२॥ चक्रस्तद्भवमोक्षयायिजिनपा अप्यैतदानन्दतः, । ते गण्या न भवा अतोऽपि विधिना तत्साधनीयं त्वया ॥ यावत्पष्टिसहस्रवर्षमतनीत्सा सुन्दरी सत्तपः,। .. एवं पाण्डवचंदभूपमदनाश्रीपालभूपादयः ॥ ३३॥ लब्धीः श्रीगणधारिंगौतमविभुलेभे विशिष्टास्ततः,। स्वर्ग प्राप दृढपहारिभयदस्तेनश्चतुर्यातकः ॥ . आचाम्लात्तपसोविपत्तिरहितास्ते यादवा जज्ञिरे, । - स्यन्दिन्याऽथ सनत्कुमारनृपतिश्चक्रे तनुं निर्मलाम् ॥३४॥
SR No.006174
Book TitleStotra Chintamanistatha Prakrit Stotra Prakash
Original Sutra AuthorN/A
AuthorVijaypadmasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages344
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy